भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 623, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 623

२४/१ प्रथमाध्याये तृतीयपादः ५६९ ननु सूत्रकारादिभिः पदपदार्थानामनिराकरणात्कथमुच्यते, वाक्यमेवंविधं चेष्टमित्या- शङ्क्य, टीकाकृतैवमुक्तमिति दर्शयितुमाह — ब्राह्मणार्थ इति । यथा ब्राह्मणशब्दे ब्रह्मशब्दार्थो नञर्थश्च णकारार्थ एव वा ज्ञानाख्योऽनिरूपाख्यश्च नास्ति । कम्बलशब्दे च कंशब्दार्थो वलशब्दार्थो वा नास्ति, तथा देवदत्तादयः शब्दा वाक्येऽनर्थकाः स्युरिति टीकाकारश्लोकार्थः । एवमादिना ग्रन्थेन बहुप्रपञ्चमुक्त्वा पदानामर्थव्यभिचाराभिधानाद्व्यभिचारिणामपि केवलःप्रयोगित्वेनार्थपरत्वनिराकरणाद्वाक्यान्वाख्यानार्थत्वेन व्याकरणव्याचिख्यासा टीका- काराणामवसीयते । पश्चात्तु तदनाश्रयणात्पूर्वापरविरुद्धार्थाभिधानेनाप्रामाण्यं व्याकरणस्य सूचितं भवतीत्यर्थः । सूत्रकृतो जनिकर्त्तुरित्यादिनिषिद्धसमासकरणात्पूर्वापरविरुद्धामिधानं दृष्टान्तितम् । सन्ति यदृच्छाशब्दा न सन्तीत्यादिवात्तिककृतः । आकृतिर्नित्या द्रव्यमनित्यम् । द्रव्यं नित्यमाकृति रनित्येत्यादिभाष्यकृतः । सूत्रकारादिवदेव वाक्यान्वाख्यानानाश्रयणादिति वा योज्यम् । पूर्वपक्षमुपसंहरति — अत इति । आचार्याणां परस्परं विप्रतिपत्तेविगान- भूयिष्ठत्वम् । स्वयमेव पूर्वापरविरुद्धामिधानात् विरुद्धत्वम् । एकानेकमूलश्रुतिकल्पना- योगान्निर्मूलत्वम् । मुख्यामुख्यप्रयोजनासम्भवान्निष्फलत्वम् । सर्वैर्मर्षितव्यमिति भाष्योक्तमं- स्वाध्यायकालवेदिकशब्दप्रयोगेऽप्यव्यवस्थाशङ्का कस्यचित्स्यात्तन्निवृत्त्यर्थमाह — ततश्चेति । यस्तूपपादितमर्थं तार्किकत्वाभिमानी साधनप्रयोगमन्तरेण न बुध्यते, तं प्रति साधन- प्रयोगा वक्ष्यन्त इत्याह — अत्रेति । सर्वेषामर्थप्रत्यायनशक्त्वलक्षणे वाचकत्वे तावत्प्रयोग- माह — गावीति । गौणलाक्षणिकानामादिशब्दोपादानानाशङ्कानिवृत्त्यर्थं प्रकृतग्राही सर्वशब्दः गोणीशब्दस्यावपनवाचित्वात्सिद्धसाध्यतामाशङ्क्य — गोत्वस्येत्युक्तम् । उस्त्रादिशब्दैरनै- कान्तिकत्वं तत्र शब्देन निरस्तं गाव्यादिशब्देष्वृद्धशब्देन अर्थप्रत्यायनाङ्गत्वलक्षणे साधुत्वे प्रयोगमाह — एवमिति । अत्रापि गोणीशब्दे सिद्धसाध्यतापरिहारार्थं गोत्वे साधुत्वमिति विशेषणीयं साधनशब्दोक्तस्य प्रत्यायकत्वस्य गाव्यादिशब्दैरनैकान्तिकत्वमाशङ्कयार्थायैव साधनादिति मध्यमपदलोपिसमासाभ्युपगमेन मूलशब्दोपस्थापननिरपेक्षार्थप्रत्यायकत्वरूप- हेतुसूचनार्थोऽर्थशब्दः । अपभ्रंशरूपापशब्दत्ववायोगाच्छब्दत्वाभावरूपमपशब्दत्वं गाव्यादीनां वाच्यमित्यापाद्य, तन्निराकरणे प्रयोगमाह — श्रोत्रत्वादीति । अत्रापि प्रयोगद्वये दृष्टान्तः स एवेत्याह — पूर्वेति । अनादित्वे प्रयोगमाह — अनादित्वं चेति । अवध्यनवधारणस्य चिरन्तनकूपादिभिरनैकान्तिकत्वादवध्यभावावधारणादिति हेत्वर्थः । तत्सिद्धयर्थम् — वक्तुरित्युक्तम् । गवादिशब्दसम्बन्धे सर्वोऽन्यस्मात्प्रपद्यतं । महत्तद्व्यवहारित्वादिति सम्बन्धानादित्वन्यायेन सर्वेभ्यो वक्तृभ्यः पूर्वं विद्यमानत्वादि- त्यर्थः । साधुभाषणस्यादृष्टार्थत्वात्प्रयोगमाह — साधुभिरिति । अत्रैव साध्ये हेतुदृष्टान्तान्तर- माह — अशास्त्रेति । बुद्धोक्तैश्च शब्दैरर्थामिधानवदित्यर्थः । हेतुसिद्ध्यर्थं संस्कृतव्याकरण-