मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 628, कुल 804 में से
संदर्भ में पढ़ें५७४ मीमांसादर्शनम् [ सू० कतिषुचिदेव गव्यादिषु चिरापभ्रष्टत्वादृढयाशङ्कया साधुत्वभ्रान्तिर्भवेत् । ये तु सन्त्येव जडप्रायज्ञानकरणैरभिनवगव्यादिरूपेण विनाश्यशब्दाः प्रयुज्यमानाः प्रकृत्यनुसरणद्वारेण वार्थं प्रत्यापयन्त उपलभ्यन्ते, तेष्वपि प्रयोगप्रत्ययदर्शनम्- स्तीत्यनैकान्तिकता । ततश्च त्वत्प्रयुक्तोऽयं हेतुरप्यपराधभाक् । अनैकान्तिकतादोषान्न ह्यसौ साधनक्षमः ॥ ८४८ अन्यथोच्चार्यमाणश्च शब्दोऽपभ्रश्यते यथा । तथा हेतुरनैकान्ताद्धेत्वाभासत्वमृच्छति ॥ ८४९ तस्माद् दृष्टप्रयोगेऽपि पुनरस्ति विचारणा । वाचकोऽयं न वेत्येवं सति वाऽन्येन निर्णयः ॥ २५ ॥ ८५० न्य० सु०—अत्र भाष्यकृता महता प्रयत्नेनेत्यादिना सूत्रं व्याख्यायते—अपराधादि- त्यादिना । गव्यादिशब्देष्वपराधसम्भावनामात्रं सूत्रस्य तात्पर्यमुक्तम् । तत्सम्भावनामात्रेण सिद्धान्तासिद्धेरयुक्तमाशङ्क्य नेदं सिद्धान्तसूत्रम्, किं तु पूर्वपक्षदूषणार्थमित्याह— अनैकान्तिकता तावदिति । निर्णयवचनादेकान्तशब्दात्तस्मै प्रभवति सन्तापादिभ्य इति ठञ्प्रत्यये कृतेऽनैकान्तिकशब्दव्युत्पत्तेरनिर्णायकत्वम् अनैकान्तिकता । एवं न कस्य- चिच्छब्दस्य वाचकत्वं स्यादित्याशङ्क्याह—वाचकत्वादिति । परपक्षसन्देहापादनस्य स्वपक्षनिर्णयानुपयोगित्वादानर्थक्यमाशङ्क्याह—संशयेति । एतदेव व्याचष्टे—दृढेति । पूर्ववाचकत्वानिश्चयार्थत्वेनैतत्सूत्रं व्याख्यातम् । इदानीमन दित्वानिश्चयार्थत्वेन व्याचष्टे — अथ वेति । श्लोकं व्याचष्टे—यदि हीति । ननु विविधांश्शब्दानभिव्यनक्तीति भाष्येण कस्मै न सोत्रो निष्पत्तिशब्दोऽभिव्यक्त्यर्थत्वेन व्याख्यात इत्याशङ्क्य, शब्दाधिकरणे शब्दोत्पत्तेर्निषिद्धत्वादित्याह—प्रयत्नेति । यथाभाष्यं द्वेधा सूत्रं व्याख्याय स्वयमकार- प्रश्लेषेणाप्रयत्नेनापि निष्पत्तेरिति मध्यमपदलोपिसमासाङ्गीकरणेन तावदन्यथा व्याचष्टे— अपर इति । विधानशब्दः प्रकारवचनः निष्पत्तिशब्दस्य चोत्पत्त्यर्थत्वेन षष्ठ्यन्तत्वेन च प्रयत्नस्य निष्पत्तेरिति च षष्ठीसमासाश्रयणेनैतत्सूत्रं व्याख्येयमित्याह—अथ वेति । अपराधव्यतिरेकजनितेयं षष्ठीति प्रकटयितुं तस्यामिति सप्तमी । ननु प्रयत्ननिष्पत्तेरपराध- भागित्वे शब्दस्य किमायातमित्याशङ्क्य तद्गतस्यापराधस्य शब्दे सञ्चारप्रतिपादनार्थत्वेन शब्द इति सूत्रावयवं व्याचष्टे—यद्वेति । यद्वैकोपलक्षणाभावात्साध्वसाधूनां विधिनिषेध- विषयत्वासम्भवाभिप्रायेण साधुभिर्भाषितासधुभिर्नेति प्रयोगोत्पत्तेरुच्चारणनियमस्याशास्त्रीय- त्वादिति यो हेतुरुक्तः, तस्यासिद्धत्वप्रतिपादनार्थमेतत्सूत्रमित्यन्यथा व्याख्यातम् । साध्व- साधुत्वव्यवस्थां तावदाह – अतश्चेति । . 'ग्रस्तं निरस्तं निहतावलम्बिते अम्बूकृतं ष्मातमथो विकम्पितम् । संदृष्टमेणीकृतमर्द्धकं द्रुतं विकीर्णमेताः स्वरदोषभावनाः ॥'