भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 629, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 629

२५ ] प्रथमाध्याये तृतीयपादः १७५ इत्यादिसमृत्यवगतग्रस्तवत्वादिदोषवर्जितनियत ह्रस्वा दिकालाभिव्यङ्ग्ययथालक्षितक्रम- ग्राह्येषु वर्णेष्वनियुक्तो साधुशब्दप्रयोगात्तद्विपरीतेषु चासाधुशब्दप्रयोगादवश्यं तदालम्बनं किंचित् व्यवस्थितं वक्तव्यम् । तत्र च नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् १-१-१८ इति सूत्रे साधुत्वेनाभिमतानां नित्यानां शब्दाना मर्थप्रत्ययना ङ्ग्लवस्योक्तत्वात् तस्य च । फलवद्व्यवहाराङ्गभूतार्थप्रत्ययनाङ्गता । निष्फलत्वेन शब्दस्य योग्यत्वादवसीयते ॥ इति वार्त्तिकेनो पादितत्वादर्थप्रत्ययना ङ्ग्लत्वं साधुत्वमवगम्यते । तच्च वाचकवृत्त्या लक्षणावृत्त्या गौणोवृत्त्या वेति त्रिविधम् । गाव्यादिशब्दानां मुख्यार्थान्तराभावाद् गौणलाक्ष- णिकत्वे तावदनाशङ्कनीये । वाचकशक्तिकल्पनं त्वन्यथाप्युपपत्तेर्निषिद्धम् । न च प्रकारान्त- रेण शब्दस्यार्थप्रत्यया ङ्ग्लत्वं सम्भवतीत्यव्याप्त्यतिव्याप्त्यभावादेतदेव साधुत्वलक्षणं युक्तम् । तच्चानपभ्रष्टेष्वेव शब्देषु, नापभ्रष्टेष्वित्यनपभ्रंशापभ्रंशकृता साध्वसाधुव्यवस्था सेत्स्यतीत्यर्थः । दृष्टं चानपभ्रष्टेष्वेव सुवर्णादिषु व्यवहारा ङ्ग्लत्वलक्षणं साधुत्वम्, नापभ्रष्टेषु कूटेष्वि- त्याह - लोकेऽपि चेति । इदमेव वाऽनपभ्रष्टत्वं साधुत्वम् अपभ्रष्टत्वं चासाधुत्वम्, तयोश्च सम्यक्त्वासम्यक्त्ववाचिभ्यां सत्यासत्यशब्दाभ्यां वक्तुं शक्यत्वात्सत्यं वदेदनृतं न वदेदिति विधिनिषेधविषयत्वोपपत्तेर्धर्माधर्मोपयोगोस्तीत्यन्यथा साध्वसाधुव्यवस्थाम्राह-यद्वेति । एतदेव विवृणोति-धर्मेति । नन्वर्थतथात्वा तथात्वविषयत्वाद नयोर्विधिनिषेधयोर्न शब्द- तथात्वातथात्वविषयता युक्तेत्याशङ्कयाह अर्थसत्यमिति । एतच्चार्थे सत्यासत्यत्वयोः सत्त्वासत्त्वरूपत्वाच्छब्दे चानपभ्रष्टापभ्रष्टरूपत्वात्कृच्छू तयोश्च सत्यानृतशब्दयोरुभयपरत्वा- योगात् 'एष ह वै सत्यं वदन् सत्ये जुहोति, योऽस्तमिते सायं जुहोत्युदिते प्रातः-प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति येऽग्निहोत्रमित्यादिश्रुतिपर्यालोचनया वार्थपरत्वाव- सायाच्छब्दपरत्वानुपपत्तेर्गाव्यादिशब्दस्य च शिष्टैरगर्हितत्वात्प्रोढिमा त्रेणोक्तम् । उक्तेन च प्रकारेण साध्वसाधुत्वयोर्व्यवस्थायां सत्यां विधिनिषेधविषयत्वोपपत्तेः प्रयोगोत्पत्त्यशास्त्र- त्वादित्यसिद्धो हेतुरित्याह-एवमिति । अपराधभागित्वेन चासाधुत्वेनानियमेनाप्राप्तेरसाधूनां च प्रसक्तेर्नियमनिषेधविषयत्व- सम्भवात् प्रयोगोत्पत्त्यशास्त्रत्वादित्यस्य हेतोरसिद्धत्वमनेन सूत्रेणोच्यत इत्यन्यथा व्याचष्टे -- अथ वेति । धर्माय नियमो धर्माप्रसक्तये वा नियमो नास्तीत्यर्थः । एतदेव विवृणोति - यदि हीति । नियमशास्त्रशब्देन निषेधशास्त्रमप्युपलक्षितम्, साधुनियमकारिशब्देनाऽसाधु- निषेधकारिणोऽप्युपलक्षणम् । ननु गाव्यादिशब्दस्य सास्नादिमदर्थप्रतिपादकत्वे प्रसक्त्य- योगात्प्रसक्तिसिद्ध्यर्थमवश्यं सास्नादिपर्यायतुल्यं वाचकशब्दान्तरत्वमेष्टव्यमित्याशङ्कयाह- एक एवेति ।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 629, कुल 804 में से · BharatKosha