भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 64, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 64

१२ मीमांसादर्शनम् [ सू० मतमाशङ्क्याह—विध्येकवाक्यत्ववशेन चेति । तत्र निरासहेतुमाह—न चेति । लक्षणयैक- वाक्यत्वकल्पने अन्योन्याश्रयापत्तेरिति भावः । श्रौतार्थाभिधानं तु भिन्नवाक्यत्वे ऽप्युप- पन्नमित्याह—भिन्नैरपीति । न च निष्प्रयोजनत्वप्रसङ्गभयेन प्रतीयमानविषयत्यागेन विषयान्तरकल्पनोचिता प्रत्यक्षादावदर्शनादित्याह—न चेति । ननु अस्तु प्रमाणान्तरे तथा- शब्दे तु प्रयोजनवत्त्वाय श्रौतार्थत्यागेनार्थान्तरकल्पना युक्ता, बहुक्षीरादिवाक्ये तथा दर्शनादित्याशङ्कयाह—सर्वाण्येवेति । सर्वमेव वस्तु स्वविषय एव व्याप्रियते, न हूर्णनाभः कदाचित्पदसूत्रं करोति । लौकिकवाक्ये तु प्रमाणं प्रत्यक्षादेरन्यथात्वकल्पनम् । तदभावे तत्रापि श्रौतार्थानतिक्रमादिति भावः । तार्किकस्थितिपर्यालोचनस्यापि न प्रयोजनानुसारेण विषयकल्पनोचितेत्याह—तेनैवेति प्रयोजनवत एव प्रमेयत्वे तस्य हानोपेक्षानुपपत्तेः प्रमाणानां त्रैफल्यं न स्यादित्यर्थः । अप्रतीयमानस्य च प्रयोजनवत्तया ज्ञातुमशक्यत्वात्तद्विषयत्वमशक्यनिरूपणमित्याह—अपि चेति । प्रयोजनानुसारेण प्रमाणविषयकल्पनं निराकृतमुपसंहरति तस्मादिति । प्रमातॄणां प्रयोजनवत्प्रमित्सायामपि प्रमाणशक्त्या नियममात्रमेयानियम इत्याह—न हीति । पुरुषाधीनेऽपि च चक्षुरादिव्यापारे प्रमेयानियमत्वात्स्वतन्त्रे वेदे का वार्त्तेत्याह— यत्रापीति । प्रमाणान्तरस्य प्रयोजनवद्विषयत्वानियमेऽपि वेदस्य शास्त्रत्वेन हितो- पदेशित्वात् प्रयोजनवद्विषयत्वनियमेन भाव्यमित्याशङ्कयाह—न चेति । कुतः प्रथममित्य- पेक्षिते परीक्षात इति दर्शयितुमाह—अयमेव हीति । शास्त्रत्वस्यैव प्रागसिद्धेरिति भावः । न च वेदस्य निष्प्रयोजनार्थाभिधायित्वं तथाभूतस्य चादरणीयत्वं पर्य्यनुयोज्यमित्याह-- तच्चेति । उभयत्र यथाक्रमं कारणमाह—सर्वेति । उत्तरकालतामुपपादयति न हीति । परीक्षणेन १ हि पुरुषाधीनप्रामाण्यापत्तेर्नध्येत्राऽऽदरमात्रेण प्रयोजनवत्त्वनिश्चय इत्याह— पश्चादिति । यथा दर्शपूर्णमासप्रकरणाधीतानामपि पूषाद्यनुमन्त्रणमन्त्राणां न तादर्थ्यनिश्चय इति दृष्टान्तार्थः । न चाग्निहोत्रादिवाक्येषु प्रयोजनवद्विषयत्वदर्शनाद्वेदवाक्यत्वेन वायु- क्षेपिष्ठादिवाक्येष्वपि तथानुमानं युक्तम् । प्रतीतिविरोधादित्यभिप्रायेणोपसंहरति—तस्मा- दिति । इह च यानि त्वतिरिक्तान्यर्थवादमन्त्रनामधेयानुपातीनीति सर्वेषां पूर्वनिर्दिष्टानां विध्येकवाक्यत्ववशेन चैतेषामित्यादिभिर्निर्दिष्टप्रतिनिर्दिष्टकैः सर्वनामभिः परामर्शाद्, धूम एवाग्नेर्दिर्वेत्यादीनामपीत्यत्राप्यादिशब्दस्योपक्रमवशेन सर्वविषयत्वात्सदृशविषयत्वे चार्थ- वादानामपि सर्वेषामपरामर्शापत्तेस्तुल्यहेतुत्वेन चैतावता ग्रन्थेन सर्वानुपयोगप्रतिपादन- १. अध्ययनोत्तरकालीनपरीक्षणेन अध्येत्रादरमात्रेण वा न प्रयोजनवत्त्वनिश्चय इत्याह परीक्षणेन हीति प्रथमपक्षे हेतुमाह पुरुषाधीनप्रमाण्यापत्तेरिति । द्वितीयपक्षे वार्त्तिक- कृतैव दृष्टान्त उक्तः यथा पूषाद्यनुमन्त्राणां दर्शपूर्णमासप्रकरणपाठे सत्यपि न तदङ्ग- त्वनिश्चयस्तादादरमात्रेण न प्रकरणेन न च लिङ्गनिश्चयादित्यर्थः ।