मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 65, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये द्वितीयपादः १३ परतयैतद्भाष्यं व्याख्यातमिति गम्यते । मन्त्रेष्वपि१ च प्रयोगविध्येकवाक्यत्ववशेन पूर्वसाधनरूपलक्षणा सिद्धान्तिनोऽभिप्रेतैवेति, न तद्दर्शनेनाप्यर्थवादमात्रपरत्वनिश्चयः । व्याख्यातॄणां त्वर्थवादमात्रपरत्वेनेमं ग्रन्थं व्याचक्षाणानामभिप्रायं न विद्मः । इदानीमेतदेव भाष्यमर्थवादमात्रानुपयोगप्रतिपादनपरतया व्याचष्टे—योऽपि चेति । सर्वानुपयोगसाधारणोपपत्त्यनुकर्षणार्थश्चशब्दः । क्लेशेनेत्यप्रतीयमानैकवाक्यताकल्पनेने- त्यर्थः । कल्प्येतेत्यनेनैतद्दर्शयति न तावत्स्तुतिनिन्दे एव निरूप्येते गुणदोषवत्त्वप्रतिपादनं हि स्तुतिनिन्दाशब्दाभ्यामभिप्रेतम् । तत्र यदीष्टानिष्टफलत्वम्, विधिप्रतिषेधविषयत्वं वा विशिष्टेतिकर्त्तव्यताकत्वं२ वा गुणदोषवत्त्वं तदन्यतः सिद्धत्यान्नार्थवादापेक्षम् । न च वायुक्षेपिष्ठत्वादेर्गुणदोषवत्त्वं सर्वार्थवादाननुवृत्तेः श्रौतत्वाच्च तस्य, लाक्षणिकस्तुति- निन्दार्थत्वसिद्धान्तभङ्गापत्तेः । न चान्यौ गुणदोषौ निरूप्येते । प्ररोचना३ द्वेषजनकत्वेन च स्तुतिनिन्दयोरर्थवत्त्वं प्रयोजनवत्त्वमिष्यते । तन्न न तावदिच्छानिच्छे तच्छब्दवाच्ये विधिनिषेधावगतेष्टानिष्टफलत्वादेव तत्सिद्धेः । प्रवृत्तिनिवृत्तिप्रतिबन्धकविपरीतत्वेनाल- स्योत्साहभङ्गोऽपि४ न । प्रवृत्तिनिवृत्तिहेतुभूतविधिनिषेधसिद्धत्वात् । तस्मान्न स्तुति- निन्दाख्यः कश्चिदर्थः । न ह्यसावर्थवादगम्यो नापि तत्प्रयोजनमिति । एवं सिद्धान्त्य- भिमतविधिनिषेधापेक्षितप्ररोचनाद्वेषजनकस्तुतिनिन्दासमर्पकत्वेन विधिनिषेधाभ्यां ग्रहणे निराकृते । यदि भावनान्तर्गतः स्यात् ततस्तद्द्वारेण विधिनिषेधग्रहणात् पुरुषार्था- न्वयित्वं भवेत्तच्च नाशङ्क्यमेवेति भावः । अगम्यमानैकवाक्यत्वेष्वर्थवादेषु लाक्षणिकस्तुतिनिन्दार्थत्वकल्पने दुःपरिहरमितरेत- राश्रयत्वमित्याह—अपि चेति । एतच्च पूर्वं सर्वानर्थक्याय योजितमपीदानीमर्थवादानर्थ- क्याय प्रकटितमित्यपौनरुक्त्यम् । अर्थवादानर्थक्यमेवोपसंहरति—तस्मादिति । ‘तस्माद- नित्यमुच्यते’ इत्येतत्सूत्रावयवव्याख्यानपरं तस्मादित्यादिभाष्यं स्पष्टत्वान्न व्याख्यातम् । वृत्तिकारान्तरैरेतत्सूत्रमर्थवादाप्रामाण्येन तदेकवाक्यतया साकाङ्क्षत्वाद्दिग्ध्युद्धेशस्याप्य- प्रामाण्यापत्तेः । प्राभाकरैरपि सकलवेदाप्रामाण्यपरतया व्याख्यातं तन्निराकरणार्थं स एष इत्यादिभाष्यम् । तत्र पूर्वपक्षे ऽर्थवादानां भिन्नार्थत्वेनैकवाक्यत्वायोगादेकदेशशब्दो न युक्त इत्याशङ्क्याह—स एष इति । १. लक्षणया विध्येकवाक्यत्वशङ्कया अर्थवादमात्रपरत्वम्भाविष्यतीत्याशङ्क्याह मन्त्रेष्व- पीति । अर्थवादानामिव समभिव्याहारलक्षणैकवाक्यताबाधेऽपि प्रयोगविध्येकवाक्य- त्वमसत्येवेति चाह—प्रयोगेति । लिङ्गसमवायो हि विधिमन्त्रनामधेययोः-व्रीहीनव- हन्तीत्यादौ अक्रियार्थत्वादितिहेतोः स्तुत्यत्वादिति भावः । २. एकत्र प्रयाजादि परत्र खड्गोद्यमादि । ३. नापि स्तुतिनिन्दयोःप्रयोजनमित्याह-प्ररोचनेति । ४. न गुणदोषवत्त्वमित्यनुषङ्गः ।