भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 642, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 642

५८८ मीमांसादर्शनम् [ सू० ॰प्यवगम्यमानवेदविधिमूलत्वादनादित्वे सति, सर्वेषां वेदवेदि १यूपा हवनीयाध्वर्युगो- दोहनादिस्वरूप-तत्कार्य-तत्साधनविधीनामिव सर्वदाऽनवगतपूर्वापरविभागसम्बन्धेऽ- त्यन्तादृष्टार्थत्वमेव केवलं शास्त्रप्रत्ययाधीनम्, तदा सर्वकालव्याक्रियमाणविद्यमान- शब्दनियमविधेर्न किंचिदनुपपन्नम् । यत्तु वाचकत्वावाचकत्वव्यतिरिक्तसाध्वसाधुताभावाद्वाचकावाचकत्वयोश्च लौकिकप्रयोगप्रतिपत्तितद्विपर्ययमात्रशरणत्वाद् गाव्यादिशब्दानामवाचकत्वप्रतिज्ञाने लोकविरोधान्न भेर्यादिशब्दमातृकाक्षरपाठप्रसिद्धन्यूनातिरिक्तविपर्यस्तवर्णपदव्यति- रिक्तप्रसिद्धमध्ये कश्चिदपशब्दो नामास्तीति । तत्राभिधीयते— संमुग्धवाचके लोके लक्षणाद्वाचकः स्फुटः । गम्यते स्मरणं चोक्तमाचाराद्बलवत्तरम् ॥ ८६८ लोकव्याकरणाभ्यां हि मिश्राभ्यामविप्लुतवाचकसिद्धिरिति, तावदेव लोक- व्यवहाराद्वाचकत्वज्ञानं जायते, यावद्व्याकरणानुगतत्वं नाभ्युपगम्यते । यदा तु तयोर्मार्गभेदेन प्रतिपत्तिः तदा 'तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् १-३-८' इत्युपन्यस्य 'शास्त्रस्था वा तन्निमित्तत्वात् १-३-९' इत्यने- नैवोत्तरेण व्याकरणाख्यशास्त्रगतप्रतिपत्तिबलीयस्त्वम्, तदभियुक्तपुरुषबलीयस्त्वं वापूर्वमेव स्थापितम् । तर्केणावाचकत्वं च वदल्लोकेन बाध्यते । स्मर्यमाणविरोधस्तु ब्राह्मणाब्राह्मणादिवत् ॥ ८६९ यथैव तुल्यशिरः पाण्याद्याकारेष्वपि संकीर्णलोकदृष्टिग्राह्येषु ब्राह्मणादिषु मातापितृसम्बन्धस्मरणादेव वर्णविवेकावधारणं भवति, तथा साधुशब्दावधारण- मपीतिलोकविरोधाभावः । यथा च तुल्यपाण्यादिरूपत्वाद्वर्णसंकरम् । वदतः स्मृतिबाधः स्यात्तथा वाचकसंकरम् ॥ ८७० आदितश्च स्मृतेः सिद्धः प्रत्यक्षेणापि गम्यते । साध्वसाधुविभागोऽयं कुशलैर्वर्णभेदवत् ॥ ८७१ यो नाम स्मृतिप्रतिपादितोऽर्थः कर्मफलसम्बन्धवदनियतकालत्वान्न ज्ञायते, कदा भविष्यतीति, सोऽत्यन्तं प्रत्यक्षाद्यविषयत्वात्केवलशास्त्रमूलत्वेन स्थाप्यते। यस्य त्वादौ स्मरणजनितविवेके कृते तदनन्तरमेव प्रत्यक्षमपि विचाराभ्यास- १ क. वेदी ।