मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 643, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपादः ५८९ जनितसंस्कारस्य रागा१भ्यासजनितषड्जादिविभागविषयमिव साध्वसाधुशब्द- रूपगोचरमुपजायते । तस्मै तर्केण यो नाम साधयेच्छब्दसंकरम् । तस्य प्रत्यक्षबाधोऽपि वर्णसंकरबाधवत् ॥ ८७२ तेनापशब्दगतवाचकत्वापादनस्यैव समस्तप्रमाणविरोधः शक्यो वक्तुम्, न स्मर्यमाणशब्दसाधुत्वपक्षस्येति निरवद्यता । तेनादृष्टार्थप्रत्यायननियमप्रतिषेधद्वारं धर्माधर्मसाधनत्वकृतमपि साध्वसाधुत्वज्ञानमुपपत्स्यते । यस्त्वाह साधुत्वं नेन्द्रियग्राह्यमित्यादिश्लोकम् । भर्तृहरिणा वाक्यपदीयेऽभिहितस्य अर्थस्योपन्यासनिरसौ तं प्रत्येवं वक्तव्यम् । साधुत्वमिन्द्रियग्राह्यं लिङ्गमस्य च विद्यते । शास्त्रस्य विषयोऽप्येष प्रयोगोऽप्यस्त्यसंकरः ॥ इति । ८७३ ग्रस्तनिरस्ताम्बूकतादिदोषवर्जितनियमह्रस्वादिकालाभिव्यङ्ग्ययथालक्षित- क्रमग्राह्यवर्णानां स्मर्यमाण।विनष्टावाचकरूपविषयश्रोत्रज्ञानेनोदात्तादिवदिन्द्रिय- ग्राह्यत्वम् । तदुत्तरकालप्रवृत्तव्यवहारगतार्थप्रतिपत्तिसहितलक्षणगतप्रकृतिप्रत्यय- लोपागमविकारादेशादिलिङ्गमप्यव्यभिचारि विद्यते । साधुनियमप्रयोगनियमयोरभ्युपगमे पूर्वोक्तदोषपरिहारः शास्त्रस्य च द्विविधस्यापि श्रुतिस्मृतिरूपस्य स्वर्गलोकयज्ञोपकारसिद्धिसाधन- भावप्रतिपादनाथं स्यार्थानर्थकार्यस्वरूपज्ञानार्थस्य चायमेवंविविध एवान्योऽपि विषयः । अविनष्टैः शब्दैर्भाषमाणस्य स्वर्गयज्ञोपकारौ भवतः । यज्ञे च कर्मण्यप- शब्दैर्भाषमाणस्यानृतमिव वदतः प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यप्रसङ्गः । यथोक्तं “वाग्योगविद् दुष्यति चापशब्दैः” इति । एतौ द्वावप्यर्थौ न शास्त्रादृतेऽन्येन प्रतिपादयितुं शक्येते इति अतीवशास्त्रविषयः । द्वाभ्यामेव च विधिप्रतिषेधाभ्या- मविनष्टैः शब्दैः स्वर्गयज्ञोपकारकामो भाषेत न विनष्टैरिति, न प्रतिशब्दाप- शब्दमनन्तविधिप्रतिषेधकल्पनप्रसङ्गः । विधि-निषेधशेषतया स्वरूपप्रतिपादनपरस्यादिशास्त्रत्वम् न च विधिप्रतिषेधविषयेणैव शास्त्रेण भवितव्यम्, न प्रमेयस्वरूपज्ञानापनार्थें- नेत्येतदीश्वराज्ञासिद्धम् । न हि 'अविनाशी वा अरे अयमात्माऽनुच्छित्तिधर्मा' इत्यादि 'चतुस्त्रिंशदाश्वीनानि, सरस्वत्या विनशनप्लाक्षप्रस्रवणे' इत्येवमादि- १. रागाभ्याय ।