भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 644, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 644

५९० मीमांसादर्शनम् [ सू० वाक्यशेषाणाञ्च शास्त्रगतानामर्थतत्त्वप्रतिपादनपरत्वं न लभ्यते । नापि तत्प्रति- पादने शास्त्रशब्दवाच्यत्वबाधः१ । अथापि विधिप्रतिषेधात्मकेनैव शास्त्रेण भवितव्यमिति काचित्परिभाषा । तथाऽप्येवंविधाः साधुशब्दाः प्रत्येतव्या इतीदृशो विधिः संभवत्येव । यो२ वाक्यान्तरावगतादृष्टफलार्थी यद्यविनष्टैः शब्दैर्भाषितुमिच्छेत्, स चैतानेवंरूपाने- तत्क्रममात्रांश्च वर्णानुपाददीत, नाधिकान्न न्यूनांश्चेति यावद्रूपं विधिप्रतिषेधौ शक्यौ दर्शयितुमिति, शास्त्रविषयत्वसिद्धिः । निःसन्दिग्धवृद्धबालप्रयुक्तदेवदत्त- तत्तादिशब्दोपमयाऽपि च सर्वशब्दानां विनष्टाविनष्टरूपैरवश्यं भवितव्यमिति शक्यं विज्ञातुम् । एवं व्याकरणानुगतवैदिकशब्दाविनाशसादृश्यादपि तद्विध- लौकिकाविनष्टत्वोपमानं दर्शयितव्यम् । अर्थपत्त्याऽपि साधुत्वसमर्थम् तथा लौकिकार्थप्रत्ययोत्थापितवाचकत्वार्थापत्तिलभ्यस्तावदेकः साधुत्व- निश्चयः । ततः संभवत्प्रमादालस्यकरणवैगुण्यनिमित्तापभ्रष्टरूपवर्जितकेवलसाध्व- न्वाख्यानस्यान्थानुपपद्यमानत्वादपरयाऽप्यर्थापत्त्या सिद्धमेव साधुत्वज्ञानम् । अपभ्रंशेषु साधुत्वं तुल्यार्थत्वादुच्यते । लक्षणाभावमार्गेण तस्याभावोऽपि निश्चितः ॥ इति ॥ ८७४ षण्णामपि प्रमाणानां साध्वसाधुत्वनिर्णये । व्यापारोऽस्तीति को जल्पेत्साधुत्वं निष्प्रमाणकम् ॥ ८७५ यद्यप्यनभियुक्तानां प्रयोगोऽस्ति ससंकरः । अभियुक्ता विवेक्ष्यन्ते तथाऽपि ब्राह्मणादिवत् ॥ ८७६ यथा च पद्मरागादीन्काचस्फटिकमिश्रितान् । परीक्षका विजानन्ति साधुत्वमपरे तथा ॥ ८७७ यथा रत्नपरीक्षायां साध्वसाधुत्वलक्षम् । तथा व्याकरणात्सिद्धं साधुशब्दनिरूपणम् ॥ ८७८ पौरुषेयव्याकरणागमपरम्परायामपि च तदनुगतसाधुत्वानन्तरदर्शनात् पूर्वदृष्टविवेकज्ञानमात्रपरत्वाद्वा नान्धपरम्परावचन्त्यायप्रसङ्गः । यावानिह दृष्टांशः स वैदिकविधिप्रतिषेधद्वयादेवोपपन्नः । तत्सिद्ध्यर्थाविनिष्टरूपाज्ञानं वेदशिष्टप्रयोगसंवादिव्याकरणान्वाख्यानपारम्पर्येण सद्यः फलत्वात्सुलभमिति न पुरुषकृतत्वनिमित्तदोषप्रसङ्गः । १. क. वाच्यत्वं बाघः । २. क. यद्वाक्यान्तरा ।