मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 645, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपादः ५९१ यत्तु दृष्टार्थत्वात्स्वसामर्थ्यप्राप्तत्वादेव 'अप्राप्ते शास्त्रमर्थवत्' ६-२-४ इति वाचकभाषणविधानमनुपपन्नमिति तत्राधिकरणेनेवोत्तरं 'नियमाार्था¹ वा श्रुतिरुच्यते' ४-२-२३ इति । यत्त्ववाचकत्वेनापशब्दानामप्रसङ्गाद्व्यावर्त्याभावे नियमानुपपत्तिरिति । तत्रोच्यते—नियमः परिसंख्या वा न व्यावर्त्यादृतेनेष्यते । नित्यतामात्रकारी तु नियमः किं न लभ्यते ॥ ८७९ सति भाषितव्ये कदाचिदविनष्टेन भाषेत, कदाचित्प्रमादाशक्तिजापभ्रंशेना- प्यक्षिनिकोचनादिना वा शब्दरहितेनैव प्रत्यापयेत् । अत्र श्रेयोऽर्थिनोऽवश्यं साधुभाषा नियम्यते । नियोगेन हि तां कुर्वन्नपूर्वं साधयिष्यति ॥ ८८० यद्यपि च नियमेऽन्यनिवृत्तिरवश्यं कल्पनीया, तथाऽपि साधुशब्दस्मृतिव्य- वहितानां कालरूढरूपभ्रान्तिवाचकत्वगृहीतानां चापशब्दानां संभवति² प्रयोगप्र सङ्गे साधुनियमेन व्यावृत्तिः । अथ वा नैवापशब्दानमंपृथक्त्वे केचिदेकक्रियाविषयानेकद्रव्यगुणादिवद- भिधायां प्राप्नुवन्ति ये साधुनियमेन व्यावर्त्येरन् । किं तु--साधूनेव प्रयुञ्जाना नाशयेयुरयत्नतः । मा³ विनीनशदित्येवं नियमस्तान्नियच्छति ॥ ८८१ तद्यथा 'यो विदग्धः, स नैर्ऋतः' इत्येवमादिदोषनिन्दापूर्वकम् 'अविदहता श्रपयितव्यः' इति नियम्यते, तथा 'दुष्ट शब्दः स्वरतो वर्णतो वा' इत्यादिना निन्दितत्वात्, 'तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः' इति प्रमादादिनिमित्तविनाशेन शब्दकार्यादर्थसाधनादपेतोऽयं म्लेच्छः, 'म्लेच्छ अव्यक्तायां वाचि, इति स्मरणात्स न प्रयोक्तव्य इति प्रतिषेधः । 'तस्मादेषा व्याकृता वागुद्यते' इति च विधिरविनष्टप्रयोगनियमार्थः । ननु चाशक्तिजा दोषाः प्रमादजनिताश्च ये । परिहर्तुमशक्यत्वान्निषेधस्याप्यगोचराः ॥ ८८२ उच्यते—प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च । एवमर्थो निषेधोऽयं नाऽऽद्रियेताऽन्यथा ह्यसौ ॥ ८८३ अन्ये सुखमुखारूढा न क्लेशेन विवक्षवः । शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥ ८८४ १. क. नियमाार्था श्रुति । २. क. सम्भविनि । ३. क. माविनोनश ।