मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 647, कुल 804 में से
संदर्भ में पढ़ें९ ] प्रथमाध्याये तृतीयपाद। ५९३ तथैव 'प्रयाजशेषेण हवींष्यभिधारयति' इत्ति सत्यपि शेषस्य तृतीयानिर्देशे, कार्योपयोगित्वात्संस्कार्यत्वावधारणम् । एवं ब्राह्मस्यापीत्यदोषः । यदि वा ब्राह्मणेनेति तृतीया यागकारिणी । कामधुक्शब्दयोगाच्च बहिःप्राधान्यकल्पना ॥ ८९२ नैव म्लेच्छनकारित्वात्तृतीयेयं प्रतीयते । कुर्वता यागमित्येवं ब्राह्मणेनेति योज्यते ॥ ८९३ यागे यो गुणभावश्च संस्कारे सा प्रधानता । न ह्यारादुपकारित्वं संयुक्तस्योपयोगिता ॥ ८९४ तच्चोपयोगित्वं प्रकरण-तृतीयाविभक्तिश्रवणाभ्यामवगतं शेषस्वीकरणसमर्थं भवति । बाह्यपुरुषार्थत्वेऽपि कामधुक्शब्दस्य पुरुषोपभोग्यकाम्यमानार्थसाधन- वचनत्वात्पुरुषप्राधान्यप्रतिपत्तिः१ । यद्यपि च साधुशब्दोच्चारणमुच्चारयित्रर्थम्, क्रत्वर्थं च न भवति, तथाऽपि तद्गतनियमप्रतिषेधयोरेव क्रत्वर्थपुरुषार्थत्वे भविष्यतः । न हि यदर्थे कर्मणि यो नियमप्रतिषेधो, तावेव केवलौ तदर्थौ भवतः । तथा हि—स्त्रद्युपायमांसभक्षादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ ८९५ क्रत्वर्थात्खादिराच्चेष्टा वीर्यसिद्धिविधानतः । भोजनाच्चाप्यतिथ्यर्थात्पूर्वं दातृसंश्रितम् ॥ ८९६ अतश्च परार्थोच्चारणाश्रितावपि नियमप्रतिषेधौ स्वप्रयोजनाकाङ्क्षावेलायां संनिहितपुरुषप्रधानौ विज्ञायेते । अतश्च वेदमूलत्वे सत्येवं प्रतिपादिते । प्रयोगोत्पत्त्यशास्त्रत्वं यदुक्तं तदसत्कृतम् ॥ ८९७ यच्चास्य कृतिमत्त्वेन स्वतः शास्त्रत्वबाधनम् । तत्प्रसिद्धिविरुद्धं स्यादचन्द्रशशिवाक्यवत् ॥ ८९८ शास्त्रशब्दस्य रूढ्या योगेन च व्याकरणस्य ग्रहणम् शास्त्रशब्दो यदि तावद्रूढः ततश्चतुर्दशसु तावद्विद्यास्थानेषु शास्त्रस्थानामेव प्रसिद्धः तदन्तर्गतत्वाच्च व्याकरणस्य शास्त्रत्वनिराकरणानुपपत्तिः । अथापि शिष्यतेऽनेनेति शास्त्रत्वमन्वर्थमिष्यते, तथाऽपि व्याकरणेन साधुशब्दाः शिष्यन्ते, तदनुगमोपाया वा प्रकृतिप्रत्ययादयः तदभियुक्तशिष्यजनो वेति सर्वथा शास्त्र- शब्दप्रवृत्तिरविहता । १. क. पुरुषोपयोग्य । ३८