मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 648, कुल 804 में से
संदर्भ में पढ़ें५९४ मीमांसादर्शनम् [ सू० प्रसिद्धमपि शास्त्रत्वं यस्तु तर्केण वारयेत् । वेदस्यापि स नित्यत्वाद् व्योमवद्वारयिष्यति ॥ ८९९ सदृष्टान्तं व्याकरणस्य शास्त्रत्वनिषेधे परिहारकथनम् यथैव हि व्याकरणादीनां कृत्रिमकाव्योपनिबन्धसाधर्म्याच्छास्त्रत्वं प्रतिषेद्धुम- ध्यवसीयते, तथाऽऽकाशादिकालात्मनां१ परमाणुदृष्टान्तबलेन नित्यत्वाद्वेदशास्त्र- त्वमप्ययत्नेनैव क्रियेत । यो हि नागरिकभाषाभिज्ञतया ग्रामीणैर्मातापितरावपि शुक्लवचनैरभिदधीत, स केनान्येन वार्येत । परत्राविनयं कुर्वन्पितृभ्यां वार्यते सुतः । तयोरेवाविनीतस्य को भवेद्विनिवारकः ॥ ९०० तथा बहिरसंबद्धं वदन्वेदेन वार्यते । साङ्गेन तं पुनर्निघ्नन्केनान्येन निवार्यते ॥ ९०१ क्रुद्धो यो नाम यं हन्ति स तस्याङ्गानि कृन्तति । कृत्ताङ्गस्य२ ततस्तस्य विनाशः कियता भवेत् ॥ ९०२ तेन त्रयी द्विषन्पूर्व वेदाङ्गान्येव लुम्पति । ततस्तेनैव मार्गेण मूलान्यस्य कृन्तति ॥ ९०३ श्रुतिस्मृतिप्रमाणत्वे हेतुपूर्वं निरूपिते । अङ्गानामप्रमाणत्वमशास्त्रत्वं च को वदेत् ॥ ९०४ व्याकरणस्य स्मृतिभिर्वैषम्येऽपि वेदमूलत्वेन व्याकरणान्तरेण साम्यम् यत्त्वितरस्मृतीनां प्रायेण सारूप्याद्व्याकरणस्य तद्विलक्षणत्वात्तन्मध्यपा- तित्वमसंभाव्यमिति । तत्रोच्यते—सर्वधर्मसूत्राणां वर्णाश्रमधर्मोपदेशित्वाद्धर्माणां चैकरूपप्रायत्वात्परसंवादित्वं युक्तम् । व्याकरणस्य त्वन्य एव साधुशब्दतत्त्वनिर्ण- यरूपो विषयः । तत्रास्य व्याकणान्तरेणैव संगतिः स्यात् न धर्मसूत्रैः । स्मृतित्वं त्वङ्गानाम्, धर्मसूत्राणां चाविशिष्टम् । अथापि स्मृतिशब्देन नाङ्गानामभिधेयता । तथाऽप्येषां न शास्त्रत्वप्रमाणत्वनिराक्रिया ॥ ९०५ पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ॥ ९०६ इति हि तुल्यवत्प्रामाण्यस्मरणम्— अपि वा कर्तृसामान्यादुक्तो न्यायश्च यः स्मृतेः । प्रमाणत्वे समानोऽसौ वेदाङ्गेष्वपि गम्यते ॥ ९०७ १. क. कालात्मनः । २. क. कृन्ताङ्गस्य ।