मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 650, कुल 804 में से
संदर्भ में पढ़ें५९६ मीमांसादर्शनम् [ सू० सत्यं ब्रूयादित्यास्मृतिविहितस्य सत्यद्वयस्य निर्वचनम् सत्यवचनं च सर्वश्रुतिस्मृतिषु स्वर्गसाधनत्वेन, यागसाधनत्वेन च नियतम् । सत्यं च द्विविधं शब्दसत्यम्, अर्थसत्यं च । तत्र यथैव यथावस्थिताविप्लुतार्थ- वचनं श्रेयःसाधनम्, एवं यथावस्थितशब्दसत्यवचनमपि, यथा चार्थसत्यविपर्ययः प्रत्यवायाय एवं विनियोगकालप्रयुक्तशब्दानृतवचनमपि । शब्दसाधुत्वज्ञानं च व्याकरणाभियोगविशेषादित्युक्तम् । तस्माद्विज्ञायमानत्वान्नोक्तं मूलकृता स्वयम् । शास्त्रेण सर्वशब्दाना मन्वाख्यानप्रयोजनम् ॥ ९१८ न च व्याकरणप्रयोजनाभिप्रायं प्रति केचिद्विवदन्ते । स त्वभिप्रायः किं न्याय्यः नेत्यर्थान्तरमेतत् । धर्माय नियमं चाऽऽह वाक्यकारः प्रयोजनम् । वेदमूलस्तु तत्रैक एको व्याकरणाश्रयः ॥ ९१९ साधुनियमप्रयोगनियमार्थाय व्याकरणम् नियमद्वयप्रयुक्तं व्याकरणम् । साधुशब्दज्ञानात्तत्पूर्वप्रयोगाद्वा । स्वर्गयज्ञोप- कारसिद्धिरित्येतत्तावद्वेदमूलम्, अनन्यप्रमाणकत्वात् । अतश्चायं तावद्वेदाख्येन शास्त्रेण धर्मनियमः । तथा व्याकरणाख्येन साधुरूपं नियम्यते । अविशेषेण सिद्धि स्याद्विना व्याकरणस्मृतेः ॥ ९२० तेन वेदावगतसम्यग्ज्ञात्साधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रिये- तिकर्तव्यतया नित्यवाचकशब्दरूपज्ञाननियमः क्रियते । वार्त्तिकभाष्यकारयोः परिहारं कृत्वाचिन्तान्यायेन यच्च कात्यायनेन ज्ञाने धर्म इति चेत्तथाऽधर्म इति तन्त्रेण, प्रसङ्गेन वाऽप- शब्दज्ञानादधर्मत्वापत्तिदोषमभिधाय¹, शास्त्रपूर्वप्रयोगेऽभ्युदय इति निःश्रेयस- सिद्धयुपायेऽवधारिते, यत्पुनः परावृत्य भाष्यकारेणोक्तम्, 'अथ वा पुनरस्तु ज्ञाने धर्म इत्याभ्युपेत्यवादमात्रम्, तत्-पूर्वोक्तदोषपरिहारसामर्थ्यप्रदर्शनाथं कृत्वाचिन्तान्यायेनोक्तम् । परमार्थतस्त्वन्यानर्थक्यप्रसङ्गविज्ञातपाराथ्र्यपादितार्थ- वादत्वात्फलश्रुतिर्न फलप्रतिपत्तिक्षमा विज्ञायते । यथा 'योऽश्वमेधेन यजते य उ चैनमेवं वेद' इति ज्ञानमात्रादेव ब्रह्महत्यातारणं यदि सिद्ध्येत्, को जातुचिद्बहु- द्रव्यव्ययायाससाध्यमश्वमेधं² कुर्यात् । तद्विधानं चानर्थकमेव स्यात् । एवं शब्द- १ क. वापशब्दज्ञानादपधर्मत्वापत्ति । २ क. क्षयव्यया ।