मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 651, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपादः ५९७ ज्ञानाच्चेद्धर्मः सिध्येत्, को नामानेकतालवादि व्यापारायासखेदमन्ुभवेत् । तस्मात्क्रतुवदेव ज्ञानपूर्वप्रयोगस्यैव फलं कारणे कार्यवदुपचारात्तण्डुले देववर्षण- वज्ज्ञाने धर्मवचनमापादिताधर्मपरिहाराभिधानशक्तिमात्रप्रदर्शंनार्थमेवोप न्यस्तम्, न फलवत्त्वप्रतिपादनाय। 'द्रव्यसंस्कारकर्मसु परार्थत्वात्' (४-३-१) इत्यनेन न्यायेन ज्ञानस्य पुरुषशब्दसंस्कारत्वेन निराकाङ्क्षस्य फलसम्बन्धासम्भवात् । आत्मज्ञानस्याभ्युदय-निःश्रेयसफलकत्वेन अप्रकरणस्थत्वेनार्थवादत्वमितिवर्णनम् सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणात् ॥ ९२१ आत्मज्ञानं हि संयोगपृथक्त्वात्क्रत्वर्थपुरुषार्थत्वेन ज्ञायते तेन विना परलोक- फलेषु कर्मसु प्रवृत्तिनिवृत्यसम्भवात् । तथा 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' तथा 'मन्तव्यो बोद्धव्यः' 'तथाऽऽत्मानमुपासीत' इति कामवाद-लोकवाद-वचनविशेषैर्जिज्ञासामनन सहितात्म- ज्ञानकेवला वबोधपर्यन्त स्पष्टात्मतत्त्वज्ञान विधानापेक्षितवाक्यान्तरोपात्तद्विविधाभ्यु- दयनिःश्रेयसरूपफलसम्बन्धः, 'स सर्वांश्च लोकानाप्नोति, सर्वांश्च कामानाप्नोति तरति शोकमात्मवित्, तथा स यदि पितृलोककामो भवति, संकल्पादेवास्य पितरः समुत्तिष्ठन्ति, तेन पितृलोकेन संपन्नो महीयते' इत्यादिना योगजन्याणि- माद्यष्टगुणैश्वर्यफलानि वर्णितानि । तथा 'स खल्वेवं वर्तयंन्यावदायूषं ब्रह्मलोकमभिसंपद्यते, न स पुनरावर्तंते' इत्यपुनरावृत्यात्मकपरमात्मप्राप्त्यवस्थाफलवचनम् । अप्रकरणगतत्वेनानैकान्तिक- क्रतुसम्बन्धासम्बन्धाच्च नाञ्जन-खादिर-स्रुव-वाक्यादिफलश्रुतिवदर्थवादत्वम् । न च ज्ञानविधानेन कर्मसम्बन्धवारणम् । प्रत्याश्रमवर्णनियतानि नित्यनैमित्तिककर्माण्यपि पूर्वकृतदुरितक्षयार्थमकरण- निमित्तानागतप्रत्यवायपरिहारार्थं च कर्तव्यानि । न च तेषां भिन्नप्रयोजनत्वाद् भिन्नमार्गत्वाच्च बाध-विकल्प-परस्पराङ्गाङ्गिभावाः संभवन्ति । शब्दज्ञानस्य त्वेकान्तेन प्रयोगाङ्गत्वात्पूर्वतरभावित्वाच्च न पृथक् फलसम्बन्धसम्भव इति ज्ञान- पूर्वप्रयोगफलवत्त्वमेव निश्चीयते । अदिमद्वयाकरणस्यानादिविधिमूलकत्वं व्यवहारनित्यतामादायोपपत्तिः यत्त्वादिमद्वयाकरणज्ञानतत्पूर्वकप्रयोगफलसम्बन्धोऽनादिविधिमूलो नावकल्पत इति । तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादन्ुपालम्भः । 'तस्मादेषा व्याकृता' इति च व्याकरणव्यवहारनित्यत्वमुक्तम् ।