मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 652, कुल 804 में से
संदर्भ में पढ़ें५९८ मीमांसादर्शनम् [ सू० न चैषा सम्प्रदायेन व्याकृतेत्यभिधीयते । तत्र ह्युच्यत इत्येव व्याकृतेति तु निष्फलम् ॥ ९२२ यद्यपि च मनुना पङ्क्तिपावनमध्ये वेदादेवोपलभ्योक्तं ‘यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्’ इति । तेनापि पूर्वपश्चादुक्ताधीतवेदत्व-यज्ञमीमांसन- व्यतिरिक्तविषयेण सताऽवश्यमेतदेव व्याकरणज्ञानमाश्रयितव्यमिति तन्नित्यत्व- सिद्धिः ॥ २७-२८-२९ ॥ (इति व्याकरणाधिकरणम् ॥ ८ ॥) न्या० सु०—भाष्यकृता पदोत्तरत्वेन सूत्रं व्याख्यातुं कथं पुनरित्याशङ्कितम् । तद्व्याचष्टे—तुल्येति । ततश्च पुनरपि अगृह्यमाणविशेषत्वात् सर्वेषां वाचकत्वमापद्येते- त्याशयः । शक्यमित्याहेति भाष्येणैतदाशङ्कानिरासार्थत्वेनैतत्सूत्रमवतारितं तद्व्याचष्टे— अत आहेति । अत्रार्थिनोऽभियुक्ता भवन्तीत्यादिभाष्येददृष्टार्थिनामार्याणां शब्दार्थविषयादर- विशेषात्तदुपदेशे वाचकत्वावधारणकारणमित्याभाति । तच्च गव्यादिशब्देष्वप्यार्योप- देशतुल्यत्वादयुक्तमितिमत्वाऽर्थविशेषप्रतिपिपादयिषया पृच्छति—कः पुनरिति । अभियोग- तद्विशेषशब्दयोः प्रकृतोपयोगिनमर्थमाह—तदुच्यत इति । शब्दपरोऽभियोग इति निर्देशः । लक्षणस्य व्याकरणस्य यच्छ्रवणम्, तदभ्यासनिमित्तः तं वा विषयीकृत्याभियोगशब्दः प्रवर्त्तते लक्षणश्रवणाभ्यासोऽत्राभियोगशब्देनोक्त इत्यर्थः । यल्लक्ष्यमुदाहरणीकृत्य लक्षण- श्रवणमभ्यस्तं तद्व्यतिरिक्तानान्तुल्यन्यायानां लक्ष्याणां तेन लक्षणश्रवणाभ्यासेन ज्ञान- मभियोगविशेषः फलेन तद्धेतोरभ्यासातिशयस्य लक्षणाल्लक्षणश्रवणाभ्यासातिशयोऽभियोग- विशेष इत्युक्तं भवति । ननु प्रतिपदपाठेनैव वाचकत्वनिरूपणसिद्धेनं लक्षणश्रवणाभ्यासा- तिशयापेक्षेत्याशङ्कां निरस्य तृतीयस्य प्रश्नस्योत्तरमाह—प्रतिपदेति । ननु प्रतिपदपाठस्याभ्यासत्वेऽपि— वेदाङ्गो वैदिकाः सिद्धाः लोकाच्चैव हि लौकिकाः । अनर्थकं व्याकरणमिति न्यायेन लौकिकवैदिकप्रयोगसिद्धत्वाद्वाचकत्वनिरूपणस्य न व्याकरणापेक्षेत्याशङ्कयाह—तस्मादिति । वाचकसामस्त्याज्ञानत्वावाचकत्वनिश्चयोऽपि न सम्भवतीत्याह—तत्साकल्येति । ननु वाचकसामस्त्यज्ञानेऽपि कथमवाचकनिश्चयः स्यादित्या- शङ्कयाह—लक्षणेति । सूत्रार्थमुपसंहरति—तेनेति । सूत्रं व्याख्याय, पूर्वपक्षोक्तानि दूषणानि परिहरिष्यन्पदपूर्वकत्वाच्च वाक्यात्मक- शास्त्रव्यापारसिद्धेरित्यादिनोक्तमितरेतराश्रयमनुभाषणपूर्वकं परिहरति—यत्त्विति । प्रयोगोत्पत्त्यशास्त्रत्वादित्यनेन लक्षणशास्त्रस्य तन्मूलशास्त्रस्य वा लोकप्रसिद्धपदप्रयोगा- दुत्पत्तेः प्रयोगनियामकत्वासम्भवादितरेतराश्रयत्वं यदुक्तम्, तद्यदि तावन्निर्णीतवाचकत्वैः पदैरन्वाख्यानम्, अन्वाख्यानाच्च वाचकत्वनिर्णय इत्येवं रूपमभिप्रेतम् ततो वाचकत्वा- निर्णयेऽपि प्रतिपादकत्वमात्रेणान्वाख्यायकत्वोपपत्तेः सुपरिहरमित्यर्थः ।