मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 653, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपादः ५९९ ननु च कुत्वं कस्मान्न भवतीत्यादिलक्षणानुगमदर्शनाद्व्याकरणावयवभूतेष्वपि पदेषु साधुत्वनिर्णयेन भाव्यमित्याशङ्क्य—पुनस्तैरेपोत्युक्तम् । अथ लक्ष्याणां शब्दानां साधुत्वे सत्यन्वाख्यानमन्वाख्यानाच्च साधुतेतीतरेतराश्रयमभिप्रेतं तत्राह--यदीति । न त्वेतदस्तीति शेषः। ननु व्याकरणात्प्रागेव साधुत्वज्ञाने व्याकरणानर्थक्यं स्यादित्याशङ्कयाह— निशानेति । श्लोकं व्याचष्टे—तेनेति । ननु लौकिकशब्दानां सङ्कीर्णत्वाद्व्रतवन्वाख्यान- मर्थवद्वैदिकानां त्वसङ्कीर्णत्वादनर्थकमित्याशङ्कते — वेद इति । अनेन च नचाश्रितप्रतिपद- पाठानां लक्षणं न कार्यमित्यादिनोक्तमानर्थक्यं प्रसङ्गात्परिहारायाऽनुभाषितं सर्वसाधु- शब्दानां वेदे प्रयोगे सति व्याकरणानर्थक्यं स्यात्कृत्स्नसाधुशब्दविषयत्वाभावात्तु वेदस्य तदनुगतशब्दान्वाख्यानार्थं व्याकरणं भविष्यतीति परिहरति ॥ २७ ॥ न्या० सु०—भाषायामित्यधिकृत्यानुगतानां लोकविषयत्वाच्छन्दसीत्यधिकृत्यानुगतानां च वेदविषयत्वान्न वेदस्य कृत्स्नविषयतेत्युपपादयति—केष्विदिति । तेन लोकव्यवस्थितानां तावल्लक्षणमर्थवदित्यशयः । कृत्स्नसाधारणसाधुशब्दविषयत्वस्याप्येकस्यां शाखायाम- भावात्सर्वशाखागतानां चाध्ययनाशक्तेः शाखान्तर्गतसाधारणशब्दानामप्यपभ्रंशेभ्यो विवेकाय लक्षणमर्थवदित्याह—सर्वेति । एतदेव विवृणोति — तथैवेति । अशक्तानन्त्यं कारणमाह—प्रकृतीति । इत्थं निर्णीतवाचकत्वैः पदैरन्वाख्यानमन्वाख्यानाच्च वाचकत्व- निर्णय इत्येवं रूपे लक्ष्याणां शब्दानां साधुत्वे सत्यन्वाख्यानमन्वाख्यानाच्च साधुतेत्येवं रूपं वा लक्षणगतेऽन्योन्याश्रये परिहृते यदि कश्चिद्व्याकरणमूलभूतो वैदिको विधिर्व्याकरणा- श्रयो वेदविद्विद्याश्रयं च व्याकरणमित्येवं रूपम् । तस्मान्न ब्राह्मणेन म्लेच्छितवा इत्यादि- लक्षणमूलगतमितरेतराश्रयं ब्रूयात् तत्राह—एतेनेति । पुरुषार्थं यत्स्वर्गे लोके कामधुग्भवतीति प्रतिपादितम् अदृष्टं साध्यं क्रत्वर्थं च ब्राह्मणेन न म्लेच्छितवा इतिज्योतिष्टोमप्रकरणाधीतवाक्यकल्पन्याकृता वागुद्यत इत्यनारभ्या- धीतवाक्यकल्पं वा, यत्साध्यम्, यच्च साधुशब्दप्रयोगाख्यम्, साधुशब्दज्ञानाख्यं वा साधनं तयोर्यत्साध्यसाधनभावविधायकं वाक्यं तद्गतानां शास्त्रान्वितादिपदानां वा या व्याक्रिया, तस्याश्च या पूर्वंप्रसिद्धविधिव्याक्यमूलत्वकल्पना त्वयेष्टा, तस्याश्च तद्वाक्यमूलत्वे वेदविहितः प्राक्सिद्धत्वकल्पनापत्तेस्तदाश्रयो वेदविधिः, तस्याश्च तन्मूलत्वकल्पना तदाश्रया सेतीतरेत- राश्रयत्वस्य यः प्रसङ्गः शक्यते एतेन प्रासाङ्गिकानर्थक्यपरिहारसमाधानस्याबुद्धिस्थेन लक्षण- गतेनेतरेतराश्रयत्वपरिहारन्यायेन प्रत्युक्त इत्यर्थः । एतदेव व्यतिरेकदर्शनपूर्वकं विवृणोति- यदि हीति । अन्वाख्यानं प्रकृत्यादिविभागेनाख्यानम् । अन्वाख्येयाः साधुशब्दाः अन्वाख्या- तानां विधिः—व्याकृता वागुद्यत इत्यादिप्रयोगो व्यवहारकाल इति चतुष्टयं साधुशब्दविषयं ब्राह्मणेन न म्लेच्छितवा इत्यन्वाख्यातानां प्रतिषेधः व्यवहारकाले वर्जनम्, चेत्यसाधुविषयं द्वयमिति षट्कस्याप्यनादित्वे सति सर्वेषामन्वाख्यानादीनां सर्वदाऽनवगतपूर्वापरविभागसम्बन्धे सति यदात्यन्तादृष्टार्थत्वमात्रमेषां शास्त्रीयप्रत्ययाधीनं न स्वरूपम्, तदा सर्वकालव्याक्रिय- माणत्वेन विद्यमानस्य शब्दस्य यो नियमविधिस्तस्येत्यर्थः, निषेधोऽपि विधिशब्देनोपलक्षितः