मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 655, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपादः ६०१ तत्र—आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः। देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥ ब्रह्मग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वंपथे चरन् । नाभिहृत्कण्ठमूर्द्धास्येष्वाविर्भावयति ध्वनिम् ॥ नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टापुष्टश्च कृत्रिमः । इति पञ्चाभिधावन्तः पञ्चस्थानस्थितीः क्रमात् ॥ व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते । कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥ तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रुतयो मताः । स्यातां निषादगान्धारौ द्विश्रुती धैवतर्षभौ ॥ त्रिश्रुती वेदश्रुतयः षड्जमध्यमपञ्चमाः । मयूरचातकच्छागक्रौञ्चकोकिलदर्दराः ॥ गर्दभः सप्तषड्जादिक्रमादुच्चारयन्त्यमी । इत्यादिलक्षणैः षड्जादीनां विवेके द्वितीयेन रागविवेकसंज्ञकेनाध्यायेन कृते तदभ्याससंस्कृतेन श्रोत्रेण यथा षड्जोऽयमृषभोऽयं गान्धारोऽयं मध्यमोऽयं पञ्चमोऽयं धैवतोऽयं निषादोऽयमिति स्वरविवेकज्ञानं जायते । तथा यस्य व्याकरणस्मृतिजनिते साध्वसाधुविवेके पूर्वं जाते, पश्चाद्व्याकरणश्रवणाभ्याससंस्कृतश्रोत्रस्य साध्वसाधुविवेक- विषयं प्रत्यक्षं जायते । तं प्रति साध्वसाधुसङ्करं साधयतः प्रत्यक्षबाधो ब्राह्मणादिवर्ण- सङ्करसाधनवद्भवतीत्यर्थः । अतस्त्वपक्षस्यैव प्रमाणविरोधः नास्मत्पक्षस्येत्युपसंहरति— तेनेति । प्रत्यक्षग्राह्यत्वे सति तत्पूर्वकस्यानुमानादेरपि सम्भवात्समस्तशब्दः । यच्चादृष्ट- विषयवच्छब्दानां साध्वसाधुतेत्यादिना साध्वसाधुविवेकस्याप्रामाणिकत्वेन विधिनिषेध- विषयत्वायोगान्न धर्माधर्मसाधनत्वरूपापि साध्वसाधुतेत्युक्तम् । तदपि साध्वसाधुविवेकस्य सप्रमाणकत्वाभिधानेन परिहृतं भवतीत्याह—तेनेति । ननु— 'साधुत्वं नेन्द्रियग्राह्यं लिङ्गं वाऽस्य न विद्यते । शास्त्रस्यं विषयो नैष प्रयोगेऽप्यस्य सङ्करः ॥' इत्यन्यैरुक्तम् । तस्य कः परिहारः ? इत्याशङ्क्याह—यस्त्विति । इन्द्रियग्राह्यत्वं विवृणोति—ग्रस्तेति । ग्रस्तमविभक्तिकोच्चारणं निरस्तं विश्लेषितसंयोगम्, अम्बूकृतं सनिष्ठीवितम् । संवृतकलप्रगीतोपगीतक्ष्विण्णरोमशादीनामादिशब्देनोपादानम्, दोषवर्जि- तानां नियतह्रस्वादिमात्रिकालामभिव्यङ्ग्यानां यथावृद्धव्यवहारं लक्षितेन क्रमेण ग्राह्याणां वर्णानामिन्द्रियग्राह्यत्वमित्यर्थः ।