मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 656, कुल 804 में से
संदर्भ में पढ़ें६०२ मीमांसादर्शनम् [ सू० नन्वेवमप्यर्थप्रत्यायनाङ्गत्वलक्षणस्य साधुत्वस्येन्द्रियग्राह्यत्वं नास्तीत्याशङ्क्य, वाचकत्वस्य साधुत्वस्याविनष्टत्वेन निरूप्यत्वात्तद्विषयस्य ज्ञानस्य श्रोत्रजन्यत्वेनेन्द्रिय- ग्राह्यत्वं नास्तीति वक्तुम्—अविनष्टेत्युक्तम् । प्रकृतिप्रत्ययान्वाख्यानस्मृतिसहकृतस्य च श्रोत्रस्याविनष्टरूपविषयज्ञानहेतुत्वाद्वैयाकरणस्याज्ञानं युक्तमिति—स्मर्यमाणशब्देनोक्तम् । यथोदात्तादिरूपज्ञानश्रोत्रं स्मृतिमपेक्षते तद्वदविनष्टरूपज्ञानेऽपीति दृष्टान्तार्थः । लिङ्गग्राह्यत्वं विवृणोति—तदुत्तरेति । प्रत्यक्षेण साध्वसाधुविवेकग्रहणोत्तरकालं यत्प्रवृत्तं लक्षणम्, तद्गतं प्रकृतिप्रत्ययलोपादिसधुत्वाव्यभिचारितया लक्षणेनावगतत्वादु- दाहृतशब्दे दृष्टान्तेन शब्दान्तरे साधुत्वानुमानाय लिङ्गं भवतीत्यर्थः । वृद्धप्रयोगगम्यश्च हि शब्दार्थः सर्व एव न । इत्यनेन न्यायेन शब्दार्थस्य वृद्धप्रयोगमात्रावसेयत्वावधारणात् स्रवन्तीत्यादिषु शब्देषु वृद्धाप्रयुक्तत्वेनार्थप्रत्यायकत्वाभावात्साधुत्वरहितेष्वपि प्रकृतिप्रत्ययान्वाख्यानदर्शनात् व्यभि- चारमाशङ्क्य, व्यवहारगतार्थप्रतिपत्तिसहितत्वं विशेषणं कृतम् । अस्मादेव विशेषणादर्थ- प्रत्यायनार्थत्वम् साधुत्वलक्षणं वार्त्तिककृतोऽभिप्रेतमिति ज्ञायते । शास्त्रविषयत्वं विवृणोति — शास्त्रस्य चेति । श्रुतिस्मृतिरूपत्वेन क्रत्वर्थपुरुषार्थ- साधनत्वप्रतिपादकत्वरूपेण विधिनिषेधनिबन्धनाथंनार्थज्ञापकत्वरूपेण कार्यस्वरूपज्ञापकत्व- रूपेण चेति चतुर्द्धा द्वैविध्यं विवृतम् । साधुत्वमिन्द्रियग्राह्यमिति साधुत्वशब्देनासाधुत्वस्या- प्युपलक्षितत्वादनर्थज्ञानार्थंनिषेधशास्त्रविषयत्व (मसाधुत्वस्य दर्शितम् । अर्थ-साध्वसाधुत्व- रूपो विषय इत्यर्थः । ननु साध्वसाधुशब्दप्रयोगयोरिष्टानिष्टसाधनत्वज्ञापने साध्यसाधनभाव- विषयत्वाच्छास्त्रस्य साध्वसाधुविषयत्वं न स्यादित्याशङ्क्यैवंविध एवान्योऽपीत्युक्तम् । अन्योऽपि यागादिरेव विधिरेव विषय इत्यर्थः । द्विविधशास्त्रविषयत्वमेवोपपादयति— मविनष्टैरिति । साधुशब्दप्रयोगस्य स्वर्गसाधनत्वम् । 'एकः शब्द इत्यस्य कामधुक्शब्दयुक्तस्य शास्त्रस्य विषयः' यज्ञोपकारसाधनत्वव्याकृता वागुद्यत इत्यनारभ्याधीतस्याप्यश्वप्रतिग्रहेष्टि- न्यायेन व्याकृतत्वस्य लौकिकवैदिकवाग्वदनविषयकतवे क्रत्वर्थपुरुषार्थत्वलक्षणावैरूप्यापत्ते- र्लौकिकमात्रविषयत्वेऽपि फलकल्पनागौरवापत्तेर्वैदिके कर्मणि या वागुद्यते, सा व्याकृते- त्यर्थावधारणात् विषयः, अपशब्दभाषणस्य प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यरूपानर्थसाधनत्वं 'ब्राह्मणेन न म्लेच्छितवा' इति निषेधशास्त्रस्य ज्योतिष्टोमप्रकरणाधीतस्य विषयः, अस्य निषेधस्यानृतवदननिषेधवत्प्राकरणिकं क्रत्वर्थत्वं यज्ञे कर्म्मणि स नियमोऽन्यत्रानियम इत्यादिना महाभाष्यकृताऽप्युक्तमिति सूचयितुम्—यज्ञे कर्मणीत्युक्तम् । 'वाग्योगवित् दुष्यति चापशब्दैरिति स्मृत्यापि वाचैव हि मनसा च यज्ञो वर्त्तत इत्यादिलिङ्गदर्शना- द्धाग्योगशब्दस्य यज्ञपरत्वावगतेर्वाग्योगविच्छब्दस्यर्त्विग्यजमानविषयतया व्याख्यातुं शक्य- १. अयं पा० २ पु० ना०