मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 660, कुल 804 में से
संदर्भ में पढ़ें६०६ मीमांसादर्शनम् . [ सू० त् क्रियारूपस्य नैराकाङ्क्ष्येऽपि तद्गतस्य नियमस्यादृष्टार्थत्वं विनानर्थक्यापत्तेर्युक्त- मित्यभिप्रायेणानुभाषणपूर्वकं परिहरति—यत्त्विति । ननु फलसिद्धयर्थत्वाद् अपूर्वकल्पनायात्र तदभावान्नापूर्वकल्पना युक्तेत्याशङ्क्य क्रतूपकाररूपं पुरुषार्थरूपं च फलं दर्शयितुमाह—क्रत्वर्थमिति । एतदेवोपपादयितुमेकस्य उभयत्वं संयोगपृथक्त्वादिति चातुर्थिकं सूत्रं साध्याहारमुपन्यस्यति—एकस्य त्विति । ननु तत्र दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयादिति वाक्यद्वयश्रवणात् तस्माद् गुणानां च. परार्थत्वादसंबन्धः समत्वात्स्यादि३-१-२२त्यनेन न्यायेन परस्परासङ्गतेरेकेन विहितस्य दध्नः, परेण फलबोधाद्योगात्परस्परनिरपेक्षवाक्यद्वयेन युक्तोभयरूपता । नन्विह तथाविधं वाक्यद्वयं श्रूयत इत्याशङ्कयाह—तच्चेहेति । ब्राह्मणेन न म्लेच्छितवा इति प्रकारणिकेन निषेधेनासाधुभाषणस्य ऋतुवैगुण्यापादकत्वावगतेरर्थात्साधुभाषणनियमस्य क्रत्वर्थता- वसीयते । एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग् भवतीति चानारभ्यवादेन शास्त्रशब्दस्य रूढ्या विद्यास्थानवाचित्वात्सम्प्रदायपरतया व्याख्यानानु- पपत्तेर्व्याकरणशास्त्रानुगतसाधुशब्दभाषणनियमस्य स्वर्गसाधनत्वावगतेः पुरुषार्थतावसीयत इत्यर्थः । ननु भाषणस्यार्थप्रतिपत्त्यर्थत्वेन जुह्वादिवत्पारार्थ्यादपापश्लोकश्रवणवत्स्वर्गे लोके कामधुगिति फलश्रुतेरर्थवादत्वात्पर्णमयीत्वनियमवद्दृष्टवत्साधु नियम्यादृष्टस्यापि पुरुषार्थता न युक्तेत्याशङ्कयाह--तत्रेति । यदि क्रत्वर्थस्य भाषणस्योपायनियमरूपफलश्रुतिरेषा स्यात्, ततो भवेदर्थवादस्यानारभ्यविहितस्य तु भाषणस्य क्रत्वर्थत्वे प्रमाणाभावाद् दृष्टार्थव्यवहार- हेतुत्वेन शुद्धपुरुषार्थत्वावगतेस्तस्य च नियमं विनापि सिद्धेरदृष्टफलाकाङ्क्षिणि नियमे फलनिर्देशात्फलमेवावसीयत इत्यर्थः । एतदुपपादनार्थं फलमात्रेयो निर्देशादिति सूत्रोक्तं चतुर्थन्यायं दर्शयितुम्—आत्रेयेत्युक्तम् । श्लोकं व्याचष्टे क्रत्वर्थं हीति । पुरुषार्थांश इत्य नवधारितक्रत्वर्थत्वमात्रामिप्रायेण नियमस्य पुरुषार्थंतोक्ता । अनेन च क्रत्वर्थस्यांश इति क्रत्वर्थंशब्दे विग्रहः सूचितः । यच्च न चेदं नियमापूर्वमित्याश्रयासम्भवेनेह—अपूर्वकल्पना न युक्तेत्युक्तम् । तदनुभाष्य परिहरति—यस्त्विति । पूर्वार्धेन क्रत्वर्थशब्देन साधुभाषणनियमस्यानृतवदन- वर्जनवच्छुद्धक्रतुधर्मत्वाभिधानात्, तस्य च ऋतुसंयुक्तपुरुषधर्मविषयब्राह्मणसंयुक्तवाक्य- विषयत्वायोगात्तस्मादेषा व्याकृता वागुद्यत इत्यनेन वाक्येन या वागुद्यते, साव्याकृतेति वाग्वदनानुवादेन व्याकरणानुगतत्वविधिप्रतीतिरनारभ्याधीतस्यापि चेषेति सर्वनाम्ना- सन्निहितवैदिकवाग्वदनविषयत्वप्रतीतेलौकिकविषयत्वे च फलकल्पनागौरवापत्तेर्वेदिककर्माङ्ग- भूतव्रीह्यादिपदार्थव्यवहारार्थं लौकिकशब्दे प्रयोक्तव्ये व्याकरणानुगतशब्दनियमात्तज्जन्यं यदवघातादिनियमजन्यापूर्ववत् शुद्धक्रत्वर्थमपूर्वं तदङ्गभूतेष्वेव व्रीह्यादिष्वाश्रितम्, यत्तु न