मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 661, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये तृतीयपादः ६०७ ब्राह्मणेन म्लेच्छितवा इति ज्योतिष्टोमप्रकरणाधीतापशब्दनिषेधसामर्थ्यलभ्याद्यज्ञमध्यगत- मुक्तभाषणविषयात्साधुशब्दनियमादपूर्वं तज्जञ्जभ्यमानन्यायेनापशब्दवर्जनस्य क्रतुयुक्त- पुरुषधर्मत्वावधारणेन क्रतुसाधनीभूतपुरुषाश्रितमित्यर्थः । क्रत्वाङ्गभूतानामपि पदार्थानामङ्गस्वरूपेण यदभिधानं तदर्थं तद्विषयम् यन्न भवती- त्यनङ्गत्वाभिधानार्थमित्युक्तम् । अपूर्वहेतोर्नियमस्याभिधानविषयत्वमुपचारेणापूर्व्वेऽभि- हितम् । यद्वाऽङ्गभूतस्यापि यस्यानङ्गत्वेन प्राप्तत्वेनाभिधानं यस्य स अनङ्गत्वामिधानो यजमानः, तदर्थमित्यर्थः । उत्तरार्द्धं व्याचष्टे- प्रकरणेति । ननु जञ्जभ्यमानाधिकरणन्यायेन क्रतुयुक्तपुरुष- संस्कारत्वसिद्धावपि ऋत्विजामपि संस्कारोपपत्तेः कथं यजमानसंस्कारत्वावधारणेत्या- शङ्कय, न्यायान्तरमुक्तं शुद्धक्रत्वङ्गधर्मत्वेन क्रतुयुक्तपुरुषधर्मत्वेन च क्रत्वर्थस्य साधुभाषण- नियमापूर्वस्याश्रयमुक्त्वा, पुरुषार्थस्याह- पुरुषार्थेति । पुरुषार्थवाक्येऽपि प्रयोक्त्राश्रितं साधुभाषणनियमापूर्वमित्यन्वयः । कथमित्यपेक्षायां सम्यगित्यनेन सन्निधिः प्रमाणत्वेनोक्तः । ज्ञानपूर्वकस्य प्रयोगस्यापूर्वहेतुत्वसूचनाय ज्ञातुग्रहणम् । अपूर्वजनिकायाः साधुभाषणक्रियाया जन्यस्य च स्वर्गास्य फलस्य च तदाश्रितत्वात्तदधीननिरूपणस्यापूर्वस्यापि तदाश्रितत्वं युक्तमिति योग्यतोक्ता । यथा प्रधानयागसाध्यमादिशब्दोपात्तत्वमारादुपकारकाङ्गसाध्यम- पूर्वं प्रयोगकर्त्राश्रितमनुष्ठात्राश्रितमिति दृष्टान्तार्थः । ननु वक्ता तु भाषणे सर्व इत्यनेन ब्राह्मणेनेति तृतीया सुप्रयुक्त इति चोक्तिक्रियाया वक्तुर्गुणत्वावगमात्संस्कार्यत्व निषिद्धमत आह-तृतीयेति । दृष्टान्तं विवृणोति- यथैवेति । यथा तृतीयानिर्दिष्टस्यापि शेषस्य भूतोपयोगित्वाद्वहिषु क्षारणेन प्रतिपत्ति- रूपः संस्कारः शेषधारणाद्यपात्रान्तराप्रयोजकत्वाय चतुर्थे वक्ष्यते । तथेहापि ब्राह्मणस्य ज्योतिष्टोमसाध्यफलोपभोगलक्षणकार्योपयोगित्वाद्वपनादिनेव फलग्रहणयोग्यतारूपः संस्कारो भविष्यतीत्यर्थः । यद्वा वर्जनीयाया म्लेच्छनक्रियाया वपनादिवदेव यजमानकर्तृकत्वे सिद्धे तृतीयायाः कर्तृविधानार्थत्वायोगेनानुवादमात्राद्यर्थत्वात्तस्य चान्यतः सिद्ध्यपेक्षत्वात् यागकर्तृत्वस्यैव च प्रकरणसिद्धत्वात्तद्विषयत्वेनेयं तृतीयाऽङ्गमेव प्रतिवक्तुर्गुणत्वं ब्रूते, न म्लेच्छत्वं प्रतीत्याह- यदि वेति । पुरुषार्थवाक्ये तु कमिपदादेव स्वर्गकामादिवत्प्राधान्यलाभ इत्याह-कामधुगिति । गोदोहनादिवदधिकृताधिकारशङ्कानिवृत्त्यर्थो वहिःशब्दः । पूर्वार्द्धं व्याचष्टे- नैवेति । कथं तर्हि म्लेच्छतिनान्वय इत्याशङ्कयाह- कुर्वंतेति । यागगुणत्वं च व्रीह्यादिवत्संस्कार्यत्वस्यानुकूलमेवेत्याह-यागे इति । यागोपयोगिना ब्राह्मणेन संयुक्तस्य म्लेच्छनस्यारादुपकारित्वायोगात्संस्कारत्वमेव न युक्तमित्यर्थः । ननूपयोगित्वेऽपि ब्राह्मणस्य व्रीह्यादिवत्प्राधान्यावेदकद्वितीयाद्यभावात्कथं प्राधान्याव- गतिरित्याशङ्कयाह-तच्चेति । उपयोगितैव शेषस्वीकारसामर्थ्यात्प्राधान्याक्षेपिकेत्याशयः ।