मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 662, कुल 804 में से
संदर्भ में पढ़ें६०८ मीमांसादर्शनम् [ सू० उत्तरार्द्धं व्याचष्टे—बाह्येति । साधुशब्दप्रयोगस्य फलसाधनतैवाऽवगम्यमाना प्रयोक्तुः फलभोक्तृत्वमाक्षिपतीत्याशयः । अनेन वानप्रस्थपदं चात्र विद्यत इति परिहृतम् । यच्च न वेदोच्चारणमुच्चारयित्रर्थमित्यनेनोच्चारणस्य पुरुषार्थपूर्वंद्धारता न युक्तेत्युक्तम्, तत्परि- हरति — यद्यपि चेति । अन्यार्थाश्रितस्य निषेधस्यान्यार्थत्वे तदहर्मांसमैथुने वर्जयेदिति दर्शपूर्णमासप्रकरणाधीतं निषेधमुदाहरति — तथा हीति । नियमस्यान्याश्रितस्यान्यार्थत्वे 'खादिरं वीर्यकामस्य यूपं कुर्यादित्युदाहरणमाह—क्रत्वर्थादिति । ननु संयोगपृथक्त्वाच्च ऋत्वर्थत्वेनानुष्ठितस्य खादिरत्वस्य पुरुषार्थनियमाश्रयतास्तीत्याशङ्क्योदाहरणान्तरमाह— भोजनाच्चेति । खादिरत्वरूपेणैक्यमभिप्रेत्य पूर्वोदाहरणं समर्थनीयमुपसंहरति—अतश्चेति । एवं चावेदमूलत्वादित्युपसंहारं दूषयति—अतश्चेति । यत्तु न चास्याः शास्त्रता स्वयमित्युक्तम् । तदपि दूषयति—यच्चेति । (नासन्निध्रिमा- दिति सूत्रोपन्यासेन कृतकत्वमशास्त्रत्वे हेतुरुक्त इत्यभिप्रेत्य—कृत्रिमत्वेनेत्युक्तम् । प्रसिद्धिं दर्शयति—शास्त्रेति । यौगिकत्वेऽपि प्रसिद्धिमपपादयति—अथापीति । किं च शब्दार्थस्य वृद्धप्रयोगैकसमधिगम्यत्वेन तर्कविषयत्वाभावान्न तर्केण शास्त्रत्ववारणं युक्तमिति प्रसङ्गा- प्पत्तेरित्याह—प्रसिद्धमपीति । श्लोकं व्याचष्टे — यथैव हीति । वेदातिरिक्तविद्यास्थानानां चाशास्त्रत्वमप्रामाण्यं वोच्यमानमङ्गीकृतप्रामाण्यवेदमूलत्वेन वार्येत वेदस्यैव त्वशास्त्र- त्वमप्रामाण्यं वोच्यमानं कथं वार्येतेति सोपहासं दृष्टान्तेन दर्शयितुमाह—यो हीति । शुक्लं निष्ठुरम् ननु पूर्वं व्युत्पादितेनेष्टानिष्टप्राप्तिपरिहारसाधनोपदेशकत्वेन स्वतः प्रामाण्याच्च- प्रामाण्यकारणनिरासेन च वेदस्याप्रामाण्यं वारयिष्यत इत्याशङ्कानिराकरणं सूचयितुं मातापित्रोर्निष्ठुराभिधायिनोर्वारकान्तराभावेऽपि तावेव वारकौ भविष्यत इत्याशङ्कां निरस्यति—परत्रेति । वेदवदितरविद्यास्थानानामपि प्रामाण्यस्य व्युत्पादितत्वान्न तदनाद- रेणेदं प्रत्यवस्थानम् । तदवस्थितन्यायानादरे कश्चित्प्रतीकार इत्याशयः । दृष्टान्तेन सूचितमर्थं प्रकटयति-तथेति । व्याकरणस्य वेदाङ्गत्वान्धर्माशास्त्रादिभ्योऽतिशयं सूचयितुम्- साङ्गेनेत्युक्तम् । ननु व्याकरणमात्रस्याप्रामाण्यं मयोच्यते न वेदस्य तेनायं वृथोपहास इत्याशङ्कयाह—क्रुद्ध इति । न चाङ्गीकृतेतरविद्यास्थानप्रामाण्यो व्याकरणमात्रस्या- प्रामाण्यं वक्तुमर्हत्यविशेषादित्याह—श्रुतीति । यच्च न च स्मृत्यन्तरं किंचिदित्यनेन स्मृत्यन्तरसंवादाभावाद् व्याकरणप्रामाण्यमुक्तं तदनुभाषणपूर्वकं परिहरति—यत्त्विति । ननु वर्णाश्रमधर्मोपदेशित्वाभावे व्याकरणस्य स्मृतित्वाभावान्न तन्न्यायेन प्रामाण्यं स्यादि- त्याशङ्कयाह—स्मृतित्वं त्विति । पूर्वानुभवपारतन्त्र्यनिमित्तस्मृतिशब्दो न वर्णाश्रमधर्मोप- देशित्वनिमित्त इत्याशयः । स्मृतित्वाभावेऽपि वा तत्तुल्यत्वस्मरणशास्त्रत्वप्रामाण्ययोः सिद्धिरित्याह—अथापीति । न्यायतुल्यत्वादपि तत्सिद्धिरित्याह—अपि चेति । न च मूलासम्भवात्स्मृतिन्यायाभावः मूलस्योपपादितत्वादित्याह- प्रमाणेति । दृष्टार्थप्रत्यायन- फलत्वरूपेण सर्वप्रमाणमूलत्वम् । अदृष्टफलत्वरूपेण तु शास्त्रमूलतेति विवेकः । मूलप्रमाण- सम्भवे च व्याकरणान्तरमूलतापि न दुष्यतीत्याह—एकस्य चेति । ननु पुंवाक्यमूलत्वेऽन्ध-