मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 666, कुल 804 में से
संदर्भ में पढ़ें५१२ मीमांसादर्शनम् [ पृ० शब्दज्ञानस्य संस्कारत्वं परार्थ्यं चोपपादयितुमाह- सर्वत्रैव हीति। संस्कारस्यापि चूडाकरणाधानादेः संस्कार्यसाध्यकर्मार्थत्वाभावात्तेन च विना फलश्रुतेरर्थवादत्वाभावात्- पराङ्गं चेत्युक्तम्। पुरुषार्थस्यात्मज्ञानस्य पराङ्गत्वाभावात् - ततोऽन्यत्रेत्युक्तम्। इति- करणः संस्कारत्वपारार्थ्यत्वाभावत्वपरामर्शार्थः । संस्कारत्वपारार्थ्यत्वभाष्यावधारणाच्च- स्मात्सर्वत्र ज्ञानं संस्कारत्वेन पराङ्गत्वेनाऽवगम्यते। तस्माच्छब्दज्ञानमपि तथेति हिशब्दो योज्यः। ननु सम्बन्धग्रन्थे कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यत इत्यत्र, अर्थवादाधिकरणे च। क्रत्वर्थकर्तृप्रतिपादनेनोपनिषदाम्नैराकाङ्क्ष्यमित्यत्रात्मज्ञानस्य क्रत्वर्थाभिधानात् किमित्यत्र वर्जनमित्याशङ्कयाह - आत्मज्ञानं हीति। अविनाशी वा अरे अयमात्माऽ- नुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतीति मात्राशब्देन भूतेन्द्रियधर्माभिधानात् शरीरादि- व्यतिरिक्तसंसारिकर्तृत्वभोक्तृत्वनित्यात्मप्रतिपादनपूर्वकस्यात्मा वा अरे द्रष्टव्य इत्यात्मज्ञान- विधेः कैमर्थ्याकाङ्क्षायां फलश्रुतेर्दृष्टसम्भवे चादृष्टकल्पनानुपपत्तेर्योग्यतया कर्मप्रवृत्ति- सिद्धयर्थत्वावसायादनारभ्याधीतस्यापि च 'यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्य्यवत्तरं भवतीति' श्रुत्योपनिषच्छब्दवाच्यस्यात्मविज्ञानस्य क्रत्वर्थत्वं युक्तम्। अत एव- आत्मा ज्ञातव्य इत्येतन्मोक्षार्थम् । न च चोदितम् । इत्येतच्छब्दप्रयोगेण संसारिरूपात्मज्ञानस्यैव मोक्षार्थत्वनिरासेन कर्मप्रवृत्तिहेतुतोक्ता। असंसारिरूपात्मज्ञानस्य तु कर्म्मप्रवृत्त्यर्थत्वायोगात्पुरुषार्थतैव युक्तेत्याशयः। नन्वात्मनो लोकवेदसाधारण्याेन क्रत्वव्यभिचाराभावात्कथं तज्ज्ञानस्य क्रत्वर्थत्वाव- साय इत्याशङ्कयाह - तेन विनेति। अयमाशयः-लौकिककर्माङ्गत्वव्यावृत्त्यर्थं क्रत्वव्यभि- चारोद्धारस्याकाङ्क्षत्वेनादृष्टार्थं लौकिककर्मप्रवृत्तेश्च शरीरादिव्यतिरिक्त नित्यात्मज्ञानं विनापि सिद्धेः, साकाङ्क्षान्वयसम्भवे च निराकाङ्क्षान्वयायोगाल्लौकिककर्माङ्गत्वव्या- वृत्तिरेकान्तिकद्वाराभावेऽपि सिध्यति। अत एव परलोकफलकर्मविध्यन्यथानुपपत्त्या सामान्यसम्बन्धस्य क्लृप्तत्वाल्लौकिकविनियोगाविरोधः। यद्वोपकारकत्वमात्राभिप्रायकोऽर्थवादः। अत एव निषिद्धकर्मनिवृत्त्यर्थत्वसूचनाथों निवृत्तिशब्दो घटते निषिद्धकर्माङ्गत्वे त्वात्मज्ञानस्यानात्मज्ञेन कृतं ब्रह्महत्यादिकं वैगुण्यान्न प्रत्यवायं जनयेद् इति। इह तु पुरुषार्थत्वं कर्तृत्वभोक्तृत्वादिसंसारिरूपात्मज्ञानस्योच्यते तस्य च क्रत्वर्थत्वायोगादाकाङ्क्षावशेनाथंवादिकफलकल्पना युक्तैवेति दर्शयितुमाह - तथेति। पापजरामृत्युशोकक्षुत्पिपासारहित्यकाम्यमानफलप्राप्तिप्रयत्नानपेक्षसङ्कल्पमात्राधीन - सिद्धिरूपगुणविशिष्टात्मप्रतिपादनपूर्वकं योऽन्वेष्टव्यः, स विजिज्ञासितव्य इति श्रुत्या वेदान्त- वाक्यार्थविचारणात्मजिज्ञासासहितस्य तदवधारितात्मरूपार्थानुचिन्तनाख्यान्वेषणात्मकस्या- पहतपाप्मत्वादिगुणविशिष्टात्मज्ञानस्य विधानम्। यच्च मन्तव्यो बोद्धव्य इति श्रुत्या न्यायविमर्शात्मकमननসহিতस्य तन्निर्द्धारितात्मरूपसाक्षात्काराख्यबोधात्मकस्य सगुणात्म- ज्ञानस्यैव विधानम्। यद्यात्मानमुपासीतेति श्रुत्या केवलनिर्गुणात्मविषयावबोधपर्यन्तस्य