मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 665, कुल 804 में से
संदर्भ में पढ़ें२७-२९ ] प्रथमाध्याये तृतीयपादः ६११ ज्ञानादधर्म्मपत्तिर्दोष इति, द्वेषेण वार्त्तिकव्याख्योक्ता । यथा व्याकरणाच्छब्दज्ञानं भवति, एवमपशब्दज्ञानमपीत्यपि शब्दो योज्यः । अधर्म्मत्वापत्तिरिति च शब्दार्थं न विद्मः । शब्दा- नुशासनार्थद्वया करणात्कथमपशब्दज्ञानमित्याशङ्का, साध्वसाधुविवेकार्थत्वे व्याकरणस्य तन्त्रेण साध्वनुशासनमात्रार्थत्वे--प्रसङ्गेनेत्युक्तम् । किमर्थोऽभ्युपेत्यवाद इत्यापेक्षायाम्— पूर्वोक्तेत्युक्तम् । अत्र भाष्यकृता नैष दोषः, शास्त्रप्रमाणका वयं यच्छब्द आह तदस्माकं प्रमाणं शब्दश्च शब्दज्ञाने धर्म्ममाह, नापशब्दज्ञाने अधर्म्मम् । यच्च पुनरशिष्टाप्रतिषिद्धत्वान्नैव दोषाय भवति, नाभ्युदयाय । तद्यथा हिक्कितहसितकण्डूयितानि नैव दोषाय भवन्ति । नाभ्युदयायेति भाष्येणापशब्दज्ञानस्यानिषिद्धत्वान्न म्लेच्छभाषां शिक्षेतेति निषेधस्य वर्वरादिभाषाविषयत्वान्नाधर्म्मापत्तिरित्येकं परिहारमुक्त्वा, अथवाभ्युपाय एवापशब्द- ज्ञानस्येत्यादिभाष्येणासङ्कीर्णशब्दज्ञानस्य प्रतियोग्यपशब्दज्ञानस्येत्यादिभाष्येणासंकीर्णशब्द- ज्ञानस्य प्रतियोग्यपशब्दज्ञानाधीनत्वात् धर्म्मसाधनतैवेति परिहारान्तरमुक्त्वा, अथ वा कूपखानकवदेतद्भविष्यतीति । तद्यथा कूपखानकः कूपं खनन्यद्यपि मृदा पांसुभिश्चावकीर्णो भवति । सोऽप्सु सञ्जातासु तत एव तद्गुणमासादयति येन स च दोषो निर्हण्यते, भूयसा चाभ्युदयेन युज्यते । एवमिहापि यद्यप्यपशब्दज्ञानेऽधर्म्मः, तथापि यस्त्वसौ शब्दज्ञाने धर्म्मः, तेन स च दोषो निर्घाणिष्यते, भूयसा चाभ्युदयेन योगो भविष्यतीति भाष्येणोत्प- न्नस्याप्यधर्म्मस्य साधुशब्दज्ञानजनितधर्म्मेण निर्घाताद्दोष इति तृतीयपरिहाराभिधानात् । पूर्वोक्तस्य दोषस्य परिहारत्रयसामर्थ्यप्रदर्शनार्थं च ज्ञायत इत्यर्थः । ननु परमार्थतः शब्दज्ञानस्य धर्म्मे हेतुत्वाभावात्परिहारत्रयमप्येतदनर्थकमित्याशङ्क्य— कृत्वाचिन्तान्यायेनेत्युक्तम् । नन्वयमपि पक्षोऽभिमतः । कस्मान्न भवतीत्याशङ्क्याह— परमार्थतस्त्विति । ज्ञानमात्रस्य श्रेयोहेतुत्वे तत्पूर्वकस्य प्रयोगस्यानर्थक्यप्रसङ्गेन, ज्ञानस्य च स्वभावतो विज्ञानेन पारार्थ्येनापादितमर्थवादत्वं यस्याः फलश्रुतेः, सा तथोक्ता । अर्थ- वादत्वादिति पाठे त्वापादितार्थवादत्वादिति कर्म्मधारयः । सहृष्टान्तमन्यानर्थक्यप्रसङ्गमुपपादयति—यथेति । किं तर्ह्यालम्बनं फलश्रुतेरित्याशङ्कां निराकुर्वन् प्रकृतमुपसंहरति--तस्मादिति । देवोऽत्र वर्षति तण्डुलानित्यत्र यथावर्षण- साध्यस्य निष्पत्त्यादिकार्यंपरम्परागततण्डुलफलत्वं वृष्टावुपचर्यते तथात्रापि प्रयोगफलं तत्कारणे ज्ञान इत्यर्थः । ननु सम्यग्ज्ञात इति प्रथमश्रुतत्वेन ज्ञानस्यैव फलवत् प्रतिपत्तेः सुप्रयुक्तपदस्य च सुष्ठु प्रयोगार्हो यथा सम्यग्ज्ञात इत्येवं सम्यक्त्वव्याख्यानार्थत्वेनाप्युपपत्तेः फलपरत्वाभावादानर्थक्यप्रसङ्गो नास्तीत्याशङ्क्य, कारणान्तरमुपन्यस्तं विवृणोति— द्रव्येति । द्रव्यादित्रयविषयाया एव फलश्रुतेः पारार्थ्यहेतुकार्थवादत्वाभिधानाच्छब्द- ज्ञानस्य क्वान्तर्गतिः ? संस्कारान्तर्गतत्वेऽपि कस्य संस्कार इत्याशङ्काद्वयं निराकर्त्तुं ज्ञातुः पुरुषस्य, ज्ञेयस्य वा—शब्दस्य संस्कार इत्युक्तम् ।