मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 669, कुल 804 में से
संदर्भ में पढ़ें२७-२९ ] प्रथमाध्याये तृतीयपादः ६१५ पारत्वानुपपत्तेरवश्यं कस्यचिद् बन्धहेतोः कर्म्मणः प्रसङ्गात्तं निवृत्त्यर्थं कर्तृत्वभोक्तृत्वो- भिमाननिवृत्तेरपेक्षितायास्तत्त्वप्रकाशनं विनानुपपत्तेः । एतदेवाभिप्रेत्य बृहट्टीकायामुक्तम् । 'नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयन् ॥ वैराग्यात्पक्वविज्ञानः कैवल्यं भजते नरः ।' इति । अतोऽवान्तरकार्यभेदान्न तावद् बाधविकल्पौ जीवानादिनिमित्तवतश्च कर्म्मस्वधिकारात्, मुमुक्षोश्च ज्ञानाधिकारादधिकारिभेदलक्षणाद्भिन्नमार्गत्वान्नाङ्गाङ्गिभावः सम्भवतीति पारिशेष्यात्समुच्चय एव युक्त इति । नन्वात्मज्ञानवच्छब्दज्ञानस्यापि फलसम्बन्धः कस्मान्नेष्यते अत आह—शब्देति । यच्चादिमत्त्वाच्च धर्म्मत्वम्, नैतज्ज्ञानप्रयोगयोरित्यनेनादिमद्व्याकरणाधीनस्य ज्ञानस्य तत्पूर्वकस्य वा प्रयोगस्यानादिना वेदेन फलसाधनत्वं वक्तुं न शक्यमित्युक्तम् । तदप्यनु- भाषणपूर्वकं परिहरति — यत्त्विति । व्याकरणपरम्परानादित्वं वा अनादिवेदविषयत्वा- न्यथानुपपत्त्या कर्तुःस्मृत्या च पौरुषेयत्वावगतिरवसीयत इत्याह—तस्मादिति । यत्तु व्याकृता सम्प्रदायेन वाणी नित्यैव वैदिकील्युक्तम् । तन्निराकरोति — न चेति । वैदिक्या वाचो ह्युच्चारणार्थत्वाद्यवच्छेदायोद्यत इत्येतावद्वक्तव्यम् । अव्याकृतत्वाप्रसक्तेस्तु व्याकृत्वोक्तिर्निष्फला स्यादित्यर्थः । 'अग्रघाः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियाश्च यजमानाश्च विज्ञेयाः पङ्क्तिपावनाः ॥' इति च मनुप्रोक्तवेदत्वस्य पूर्वोक्तत्वात्, यश्च मीमांसतेऽध्वरमिति च यज्ञमीमांसनस्य पश्चादुक्तत्वाद्यश्च व्याकुरुते वाचमिति व्याकरणस्य पङ्क्तिपावनत्वापादकत्वाभिधानं प्रकृति- प्रत्ययान्वाख्यानरूपव्याकरणविषयं, न तु स्वरवर्णमात्रा कर्माविप्लुतिरूपवैदिकशब्द- व्याकरणविषयम् । नाप्युद्दिश्यमानोपादीयमानगुणप्रधानादिरूपवचनव्यक्तिव्याकरणविषय- मित्यवधारणात् । तस्य च वेदपूर्वत्वान्नित्यानित्यसंयोगपरिहाराय नित्यत्वं व्याकरणस्या- ध्यवसीयत इत्याह— यदपि चेति । तदशक्तिश्चानुरूपत्वादिति सूत्रं भाष्यकृताऽथ यदुक्तमित्यादिभाष्येण गव्यादिशब्दस्य शक्त्या विना कथमर्थप्रतिपादकतेति शङ्कानिराकरणार्थत्वेन व्याख्यातम् । तच्च ययाप्रकृति- सारूप्यद्वारेणापभ्रंशाः प्राकृतामेव शक्तिमाविर्भावयन्तोऽर्थप्रतिपत्तावुपयोगं गच्छन्ति, तथा तदशक्तिश्चानुरूपत्वदित्यत्र वर्णयिष्यते इत्यनेनैव प्रतिपादनप्रकारविशेषाभिधानार्थतया व्याख्यातत्वान्नेह व्याख्यातम् । एकदेशत्वाच्च विभक्तिव्यत्यये स्यादिति सूत्रान्तरमप्यत एवेत्यादिभाष्येणैवं गव्यादिशब्ददर्शनादिति दार्ष्टान्तिके योजनाद् गव्यादिशब्दस्य साधु- शब्दानुस्मारेणार्थप्रतिपादकत्वे दृष्टान्ताभिधानार्थतया व्याख्यातमिति प्रतीतेः स्पष्टत्वान्न व्याख्यातम् ॥ २७–२९ ॥ ॥ इति नवमं व्याकरणाधिकरणम् ॥