मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 674, कुल 804 में से
संदर्भ में पढ़ें६२० मीमांसादर्शनम् [ सू० प्रथमस्संशयः । लिङ्गदर्शनप्रत्यभिज्ञानाभ्यां द्वितीय इति द्रष्टव्यम् । प्रयोजनं तु पूर्वपक्षे लोकवेदयोः पदपदार्थान्यत्वे लौकिकानां पदानां वृद्धव्यवहारो- पात्तार्थवत्त्वेऽपि वैदिकानामव्युत्पन्नतवेनानर्थक्यात् निर्विषयत्वेनाकृत्यधिकरण- नारम्भः । सिद्धान्ते तु लोकवेदयोः पदपदार्थभेदेऽपि सति वैदिकानां पृथग्व्युत्पत्त्यन- पेक्षतयार्थवत्त्वेन सविषयत्वादारम्भः । तत्र पूर्वपक्षमाह—तत्र लौकिका इति । प्रश्नपूर्वकं हेतुद्वयमाह—कुत इत्यादिना । व्यपदेशभेदं विवृणोति—इम इति । केषां शब्दानां वैदिकानां लौकिकानां च इत्यादाविति भावः । रूपभेदं विवृणोति-- अग्निरिति । नियतस्वरो हि वैदिकोऽग्निशब्दः अनियतस्वरश्च लौकिक इति रूपभेदाद् भेद इत्याशयः । एवं शब्दान्यत्वे हेतुद्वयमुक्त्वा अर्थान्यत्वे लिङ्गदर्शनमप्याह--अपि चामनन्तीति । ननु कथमस्य वाक्यस्यार्थान्यत्वे लिङ्गत्वम् ? लोकसिद्धानां गवां देवसम्बन्धनि- मित्तोत्तानवहनप्रतिपादकत्वादस्यात आह—ये देवानामिति । यद्यपि स्वरसतो देवगतानामुद्देश्यत्वमुत्तानवहनस्य च विधेयत्वमवगम्यते, तथापि समासान्निष्कृष्य गोमात्रस्योद्देश्यत्वायोगाद्देवगवानां चाप्रसिद्धत्वादविशेषात् 'यद्वृत्तयोगः प्राथम्यं' इति न्यायेन प्रथमोपात्तोत्तानवहनोद्देशेन गोशब्दवाच्यताविधिरवगम्यत इति अर्थान्यत्वे लिङ्गत्वमित्यर्थः । लिङ्गदर्शनफलमाह—तस्मादिति । अर्थान्यत्वे लिङ्गन्तरमाह—तथेति । वनस्पतेः हिरण्यपर्णेति समानाधिकरणनिर्देशालौकि- कस्य च वनस्पतेर्हिरण्यपर्णत्वस्यानुपलब्धिविरोधेन वक्तुमशक्यत्वादलौकिकस्यैव वस्त्वन्तरस्य वनस्पतिशब्दवाच्यत्वमवसीयत इत्यर्थः । लिङ्गान्तरमाह—तथेति । ततश्चैषामन्यार्थत्वे सति तन्न्यायेन शब्दान्तराणामप्यन्यार्थत्वे सिद्धिरित्यभि- सन्धायोपसंहरति—तस्मादिति । सिद्धान्तमवतार्यं प्रतिजानीते—एवमित्यादिना । प्रश्नपूर्वकं सौत्रं हेतुभागमवतारयति—कुत इति । तमेव हेतुमन्वयमुखेन व्याचष्टे—एवं हीति । अनेनैकत्वे सति प्रयोगचोदनाया भावात् संभवादिति सूत्रावयवो व्याख्यातः । सम्प्रत्यकारप्रश्लेषेण तमेव व्याकुर्वन् व्यतिरेकमाह—इतरथेति । अस्यैव व्याख्या- शब्दान्यत्व इति । भेदे सत्यपूर्वत्वेन सर्ववैदिकपदानामनवगतसम्बन्धत्वेनावबोध- कत्वात् क्रियाकारकसंसर्गात्मकः प्रयोगरूपोऽर्थो न प्रतीयेत । अतश्च प्रयोगचोदना अभाव एव स्यादित्यर्थ—अर्थकत्वमिति । फलपरे सूत्रावयवेऽर्थपदं शब्दस्याप्युप- लक्षणार्थमिति व्याचष्टे—तस्मादिति । अविभागादिति सूत्रावयवव्यावर्त्यशङ्का- माह—नन्विति । अभेद एव वेदप्रामाण्यसिद्धिः न भेदे इत्येवं रूपं प्रयोजनं वेदप्रामाण्यवादिंन प्रत्येव वक्तुं युक्तम् न हैतुकं प्रति । तं प्रति हेतुर्ेव व्यपदिश्य- ताम् इत्यर्थः । उत्तरत्वेन सूत्रमादत्ते—तत इति । शब्दभेदे तावद्धेतुं व्याचष्टे—