मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 676, कुल 804 में से
संदर्भ में पढ़ें६२२ मीमांसादर्शनम् [ सू० महासामान्यमुक्तम् । द्रव्याणां गुणानां कर्मणां च सामान्यमिति सम्बन्धात् द्रव्यत्व- गुणत्वकर्मत्वानि दर्शितानि । मात्रशब्दः एतदवान्तरसकलसामान्यव्यावृत्त्यर्थः । असाधारणा विशेषा यस्यां सा व्यक्तिरिति बहुव्रीहिः । विशेषणशब्देन खण्डमुण्ड- त्वादयः शाबलेयत्वादयश्च गृह्यन्ते । न च तेषां साधारणत्वादसाधारणत्वासंभवः । साधारणरूपाणामेव तेषामेकद्वित्र्यादिभेदेन क्वचित्क्वचिदुपलब्धानामेकत्र च संहतानां किञ्चिदुत्कर्षापकर्षमात्रेण सर्वत्रासाधारण्योपपत्तेरिति भावः । एवं विषयस्वरूपं निरूप्येदानीं व्यक्तेरेव कार्ययोग्यत्वात् कार्यानन्वयित एव च पदार्थ- त्वावसायान्न संशयावकाश इति आक्षिपति- कुत इति । यथा कार्यानन्वयितया व्यक्तेरेव पदार्थत्वं तथानुवृत्ततया शब्दशक्तिविषयत्वयोग्यत्वादाकृतेरेव पदार्थत्वं प्रतीयत इति तुल्यत्वात् सन्देहोपपत्तिरिति परिहरति- गौरित्युक्त इति । यद्वा गौरित्युक्ते व्यक्त्याकृत्योस्सामान्यप्रत्ययातुल्यप्रत्ययात् प्रत्ययसाम्यादित्यर्थः, व्यक्तौ चकारादाकृतौ चालम्भनस्पर्शनश्येनसदृशयचनादिक्रियासम्भवेन तुल्यत्वात् संशय इति । एवं सन्देहे पूर्वपक्षं प्रतिजानीते-तदुच्यत इत्यादिना । प्रश्नपूर्वकं प्रयोगचोदनाभावादिति सूत्रमावृत्यापि योजयति-कुत इत्यादिना । आलम्भ- प्रोक्षणादीनां प्रयोगः-अनुष्ठानम्, तस्य चोदना तासामाकृत्यर्थत्वेऽभावप्रसङ्गा- न्नित्यत्वेनामूर्तत्वेन चाकृतेरालम्भनाद्यगोचरत्वादिति सूत्रार्थोऽनेन दर्शितः अर्थै- कत्वमिति सूत्रावयवव्याख्यानाय शङ्कामाह- यत्रेति । साधुप्रयोगचोदनासु व्यक्त्यर्थत्वं विनानुष्ठानासम्भवादुच्चारणानर्थक्यम्, तत्र व्यक्त्यर्थः शब्दः । अन्यत्र तु प्रथमप्रतीतेः जातिवचन इत्युभयं वाच्यं कस्मान्नाश्रीयत इत्यर्थः । अन्यायश्चानेकशब्दत्वमिति न्यायेनान्यायश्चानेकार्थत्वमित्यप्युक्तमेव । तत्राप्य- नेकादृष्टशक्तिकल्पनाविशेषादतोऽर्थैकत्वमेव युक्तमिति सूत्रावयवं व्याव्रर्त्यां शङ्कामाह- कथमिति । यदि व्यक्तिरेव पदार्थः कथं तर्ह्याकृतिप्रत्यय इत्यर्थः । अत्राविभागाद् व्यक्त्या सह सम्बन्धात् सामान्यप्रत्यय इति सूत्रव्याख्यानरूपो परिहारोऽध्याहर्तव्यः । ननु व्यक्तेश्शब्दार्थत्वे कथं व्यक्त्यन्तरे प्रयोग इत्यत्राह- व्यक्तिपदार्थस्येति । आकृत्युपलक्षितासु सर्वासु व्यक्तिषु प्रयोगमभिनयति- य एवमाकृतिक इति । नन्वेवमाकृतेरपि पदार्थोपलक्षणत्वात् पदवाच्यत्वमेवेति, नेत्याह- यथेति । यथा दण्डिपदार्थविशेषणभूतोऽपि दण्डो न दण्डिपदाभिधेयः । एवं व्यक्त्युप- लक्षणभूताकृतिरपि न व्यक्तिपदाभिधेयेति, व्यक्तेरेव पदार्थत्वमित्यर्थः । यद्वा यदि व्यक्तिश्शब्दार्थः, कथं सामान्यावगतिरिति पृष्टः पूर्वपक्षवादी सामान्यविशिष्टव्यक्त्यभिधानपक्षं परिगृह्णाति- व्यक्तिपदार्थस्येति । अत्र चा- विभागादभिधेयभूतविशिष्टान्तर्गतत्वाद्विशेषणस्य सामान्यस्य प्रत्यय इति सूत्रावयवो योज्यः ।