भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 677, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 677

३० ] प्रथमाध्याये तृतीयपादः ६२३ ननु य एवमाकृतिस्स गौरिति प्रतीतावाकृतेः पूर्वं भानात्, तस्या एव शब्दार्थत्वम्, न तद्विशिष्टव्यक्तेरित्यत आह— यथेति । न हि सत्यामपि न तद्वचनो गोशब्दः, किन्तु विशिष्टवचन इत्यर्थः । तथा चात्र केवला, विशिष्टा वा व्यक्तिश्शब्दार्थ इति पूर्वपक्षौ द्वावभिमती इत्यवधेयम् ॥ ३० ॥ अथ नवममाकृत्यधिकरणम् त० वा०—इह नाख्यातोपसर्गनिपातानां मध्यान्नामानि परिगृह्यन्ते । तेषा- मपि जाति-गुण-क्रिया-द्रव्य-यदृच्छा-सर्वनामशब्दानां मध्याज्जातिशब्दाश्चि- न्त्यन्ते । तेषामप्येकं गोशब्दमुदाहृत्य विचार्यते किं पुनरयमाकृतेर्वाचकः, अथ व्यक्तेरिति । ततः । ( लोकवेदाधिकरणम् ) एतत्सान्त्यासिकं कृत्वा वक्ष्यमाणं तु सांप्रतम् । उपायफलसिद्ध्यर्थमिदं तावद्विचाय्यते ॥ ९२३ किं य एव लौकिकाः शब्दाः त एव वैदिकाः त एव चैषामर्था उतान्य इति । आह— ( शङ्का ) किं लोकवेदशब्दानामेकत्वप्रतिपादने । प्रयोजनं यतः पूर्वं तावत्तत्प्रतिपाद्यते ॥ ९२४ उच्यते— ( समाधानम् ) फलमस्य विचारस्य वैदिकेषु भविष्यति । लोके च निर्णयोपायस्तेनैकत्वाय यत्यते ॥ ९२५ यदि शब्दार्थानामनन्यत्वं लोकवेदयोर्भवेत् । तत् एतस्या व्यक्त्याकृत्यभि- धानचिन्ताया वृद्धव्यवहारस्थानेकप्रयोगानुसरणद्वारेणाभिधेयानभिधेयत्वनिर्णयः शक्यते कर्तुम् । प्रयोजनं तु लोकस्य न किंचिदपि सिध्यति । आकृतिव्यक्तिवाच्यत्वपरमार्थनिरूपणात् ॥ ९२६ संमूर्च्छितानेकार्थसंनिधाने हि शब्द प्रयुक्तः कियत्यप्यर्थजाते प्रत्ययं करोति । तेन चाविविक्ताभिधेयगम्यमानांशेनापि समस्तधर्मोपेतेन कार्यसिद्धौ क्रियमाणायां प्रयुक्तः । यद्युच्यमानया कार्य यदि वा जातिगम्यया । समस्तं क्रियते व्यक्त्या को विवेकधियो गुणः ॥ ९२७ यद्युच्येतेहापि वेदवत्सामान्यविशेषलक्षणबाधसिद्धिरेव प्रयोजनमिति ।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 677, कुल 804 में से · BharatKosha