भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 678, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 678

६२४ मीमांसादर्शनम् [ सू० तदुच्यते— सर्वं हि दधिदानादि लोके कर्मार्थलक्षणम् । तद्वशात्क्रियमाणे तु न चिन्त्ये श्रुतिलक्षणे ॥ ९२८ तेन लोके विचारोऽयं जायते निष्प्रयोजनः । स्यात्प्रयोजनवान्वेदे ज्ञानोपायस्तु दुर्लभः ॥ ९२९ तेन शब्दार्थभिन्नत्वे व्यक्त्याकृतिविचारणा । वाच्यावाच्यविवेकाय न कर्त्तव्या कथंचन ॥ ९३० अभेदे सति लोकस्थैः कृतः शब्दार्थनिर्णयः । तस्मिन्ननुपयुक्तोऽपि फलं वेदेषु दास्यति ॥ ९३१ तेन लौकिकवैदिकशब्दार्थैकत्वे सत्याकृत्यधिकरणमुपपत्तिमत्त्वात्प्रयोजन- वत्त्वाच्चाऽऽरब्धव्यम् । भेदपक्षे त्वनारम्भमित्यवधृत्य भेदपक्षस्तावत्प्रतिपाद्यते । नियतानियतस्वरच्छान्दसप्रकृतिप्रत्ययलोपागमवर्णविकारसद्भावासद्भावकृत रूपभेदान्, अध्यायानध्ययनोपनीतानुपनीतत्रैवर्णिकचातुर्वर्ण्यप्रयोज्याप्रयोज्यत्वगुरुशुश्रूषारा - धितगुरुसंप्रदाययदृच्छाप्रयुक्तवाक्यतदर्थान्यत्ववद्यदि पदपदार्थान्यत्वं लोकवेदयोः, ततो लौकिकानामेव व्यवहारोपनिपातादर्थवत्ता । वेदे त्वानर्थक्यान्न चोदना- लक्षणो धर्मः । स्वरेण रूपभेदं मन्यते । अध्यायानध्ययनतया वृत्रहननाद्यर्थयोगेन चाविदिग्धवाक्यवदुत्तानवहनवाक्यभङ्गः । सर्वेषां च वैदिकानामन्यत्वान्न ततोऽपि पौर्वापर्येणार्थावगतिः । ग्राह्यत्वादिधर्मभेदनियतानियतपदवाक्यरचनाद्वारा व्यप- देशरूपभेदाभ्यां सर्वशब्दानांमर्थानां लौकिकानां वैदिकानां च भेद इति प्राप्ते । अभिधीयते — प्रयोगचोदनाभावादेकत्वं तेषु गम्यते । तस्मात्सिद्धिः फलत्वाच्चेदविभागाद्भविष्यति ॥ ९३२ भेदे सत्यपूर्वात्सर्ववैदिकपदानामनवगतसम्बन्धत्वेनार्थशून्यत्वात्क्रियाकारक- संसर्गात्मकप्रयोगचोदनानामभाव एव स्यात् । एकत्वे सति सद्भावादिति वा हेतुवर्णना । अर्थैकत्वं प्रधानत्वाद्वस्त्वभेदोऽथ वोच्यते ॥ ९३३ शब्दार्थैकत्वमिति वक्तव्येऽर्थैकत्ववचनं फलादेव शब्दैकत्वोक्तिसिद्धिं मत्वैवमुक्तम् । अथ वा वस्तुमात्रपर्यायत्वादुभयसाधारण्याभिप्रायेणैवार्थैकत्वोक्तिः । प्रयोग- चोदनाभावप्रसङ्गः परपक्षे, स्वपक्षे वा तद्भावसिद्धिर्वेदवादिनैव सह विवादेऽव-

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 678, कुल 804 में से · BharatKosha