मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 679, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६२५ कल्पते, नान्येनेत्यत आह—प्रयोजनमिदं १ तत्प्रमाणमभिधीयतामिति । तदुच्यते । प्रत्यभिज्ञारूपप्रत्ययविभागाज्जायमानोभयप्रमेयरूपाविभागाद्वा वाक्यतत्समूहमात्र- निबन्धनापन्नपदवर्णविषयत्वव्यपदेशाविभागाद्वा, तथोच्चारयितॄणां स्थानकरण- प्रयत्नाविभागाद्वा, लक्षणविदां वा बहुतरानुगमनाविभागादिति हेत्वर्थविकल्पाः । प्रत्यक्षप्रत्यभिज्ञानाच्छब्दैकत्वं प्रतिष्ठितम् । एकशब्दोत्थितज्ञानग्राह्यत्वाच्चैकवाक्यता ॥ ९३४ यथाश्रुतगवादीनां याऽपि वाच्यान्तरे श्रुतिः । अर्थैकत्वाविरोधेन गुणमात्रान्यता परा ॥ ९३५ यथा हि वामना गावो नराश्चिपिटनासिकाः । कर्णप्रावरणाश्चान्ये नरार्थत्वाच्च न च्युताः ॥ ९३६ एवं सत्येव गोत्वादौ धर्मो यदि विलक्षणः । नैतावताऽर्थभेदोऽस्ति विशेषानभिधानतः ॥ ९३७ न च या एव देवानां गावः ता एवाऽवश्यं सर्वत्र वैदिकस्य गोशब्दस्य वाच्या भवन्ति । मनुष्यगवीषु दक्षिणादिसाधनेषु सुतरां प्रयुज्यमानत्वात् । एवं हिरण्यपर्णत्वं मेरौ यदि वनस्पतेः । देवलोके ततः शब्दः किमर्थान्तरवाच्ययम् ॥ ९३८ यच्चैतद्घृतमस्माकं देवानां मध्विदं यदि । रसवीर्यादिभिस्तत्र न शब्दार्थोऽन्यथा भवेत् ॥ ९३९ न च सर्वाप्रसिद्धत्वे गम्यैतैकोऽपि कश्चन । तेनासिद्धैरसिद्धानां नास्त्यन्यत्वनिरूपणम् ॥ ९४० अतोऽवश्यमेतेषामेव गवादीनां देवसम्बद्धानामुत्तानवहनप्रतिपादनमिति वक्तव्यम् । अथ वा भूमिष्ठानामेव सतां केनापि गुणवादेन पृथिवीगोलक-त्रैलोक्यभ्रमणा- दिना वा पुराणोक्तेन दृष्टिवशाद्यथैव वयमुपरि देवान्पश्यामः । एवमधो द्युपरि- वर्तनादयमपि लोको देवैरुपरि दृश्यत इति, उत्तानवहनदृष्टिः । तस्माल्लोकवेद- योरभिन्नाः शब्दार्था२ इति सिद्धे । आकृत्यधिकरणस्य पूर्वपक्षः विचार्यते किमाकृतिः शब्दार्थः, अथ व्यक्तिरिति । द्वौ च पक्षावुप न्यस्तौ भाष्यकारेण यद्यपि । १ क. प्रयोजनमतत्प्रमाण । २. क. व्याकृत्या । ४०