भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 680, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 680

६२६ मीमांसादर्शनम् [ सू० अत्र वार्त्तिकमतं व्याख्यातारस्तथाऽप्यत्र कुर्युः पक्षान्तराण्यपि ॥ ९४१ नियोगेन विकल्पेन द्वे वा सह समुच्चिते । सम्बन्धः समुदायो वा विशिष्टा वैकयेतरा ॥ ९४२ एते पक्षाः पुनर्योज्या व्यतिकीर्णाः परस्परम् । लिङ्ग-कारकसङ्ख्याभिः संहतासंहतात्मभिः ॥ ९४३ पुनर्जात्यादिपक्षाणां तादृश्येवात्र योजना । प्रथमं तावदष्टपक्ष्येवं दर्शयितव्या—गोशब्दस्यार्थः किमाकृतिरेव, व्यक्तिरेव, उताऽऽकृतिर्वा व्यक्तिर्वा, अथाऽऽकृतिश्च व्यक्तिश्च, किमुभयोः सम्बन्ध, उत समु- दायः, किमाकृतिविशिष्टा व्यक्तिः, उत व्यक्तिविशिष्टाऽऽकृतिरिति । तथा किमाकृ- त्यैव विशिष्टः सम्बन्धः, किं व्यक्त्यैव, आकृत्या वा व्यक्त्या वा, अथ समुदाये- नाप्याकृतिविशिष्टया, व्यक्त्या, अथ व्यक्तिविशिष्टयाऽऽकृत्या, अथ परस्परवि- शिष्टाभ्यां द्वाभ्यामिति । तथा किमाकृत्यैव विशिष्टः समुदाय इत्याद्यपि पूर्ववदेव सम्बन्धविशिष्टसमुदायपक्षमात्रातिरिक्तं योजनीयम् । एवं किमाकृत्यैव विशिष्टः सम्बन्ध एव, उत व्यक्त्यैव, अथवाऽऽकृत्या वा, व्यक्त्या वा, अथ समुदायेन किमन्यतरविशिष्टयाऽन्यतरया, अथोभाभ्यामित्येवं समुदायविशेषणत्वपक्षाः पूर्ववदेव योज्याः । एवं किं सम्बन्धेनैव विशिष्टाऽऽकृतिः, अथ समुदायेनैवाथ विकल्पमानाभ्या- मुत समुच्चिताभ्याम् । तथैतद्विशिष्टा किमाकृतिरेवाथ व्यक्तिरेव, अथ विकल्पिते किं समुच्चिते किमिति । तथा किमाकृतिविशिष्टसम्बन्धविशिष्टा व्यक्तिरेव, अथ व्यक्तिविशिष्टसम्बन्धविशिष्टाऽऽकृतिरेवाथ विकल्प उत समुच्चयः । एवं समुदाये- नापि योज्यम् । तथा सम्बन्धविशिष्टव्यक्तिविशिष्टाकृतिरेवाथं संबन्धविशिष्टाकृतिविशिष्टा व्यक्तिरेवाथ विकल्पोऽथ समुच्चयः । एवं समुदायविशिष्टपक्षाः कल्पयितव्याः । तथा किं जात्यैव विशिष्टेन सम्बन्धेन विशिष्टा व्यक्तिः, अथ व्यक्त्यैव विशिष्टेन सम्बन्धेन विशिष्टा जातिरथ विकल्पोऽथ समुच्चयः । एवं समुदायेनापि विशिष्टता योज्या । तथा किं सम्बन्धेनैव विशिष्टया जात्यैव विशिष्टा व्यक्तिरुतैवं- विधया व्यक्त्यैव विशिष्टा जातिरथ विफल्पोऽथ समुच्चयः । एवं समुदायेनैव विशिष्ट्येत्यपि योजयितव्यम् । एवं जातिलिङ्गयोर्जाति- कारकयोर्जातिसंख्ययोश्च प्रत्येकं जातिव्यक्तिपक्षविकल्पितसमुच्चितपक्षोत्थानं दर्शयित्वा व्यक्तेर्लिङ्गादीनां च दर्शयितव्यम् । तथा लिङ्गसंख्यां लिङ्गकारक-