मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 681, कुल 804 में से
संदर्भ में पढ़ें३० . ] प्रथमाध्याये तृतीयपादः ६२७ संख्या कारकयुगलान्यपि विकल्प्य प्रत्येकद्वित्रिलिङ्गादिसहितैकजातिव्यक्तिविक- ल्पास्त्रियोगपञ्चयोगाश्चात्र दर्शयितव्याः । एवं शब्दस्वरूपस्य पुनर्जात्यादिभिः सह । एकद्वित्रिचतुष्पञ्चषट्कैः सह विकल्पना ॥ ९४४ एते चात्यन्तनिष्कृष्टाः पक्षा यद्यपि न स्थिताः । बुद्ध्या तथापि भिद्यन्ते जातिद्रव्यगुणादिवत् ॥ ९४५ सर्वत्रेन्द्रियलिङ्गाभ्यां भेदः स्तोकोऽवगम्यते । शब्देन तु सुसूक्ष्मोऽपि वस्तुभागो विभज्यते ॥ ९४६ पदात्प्रभृति चैवं या प्रज्ञा ज्ञातुर्विजृम्भते । पुष्पिता सा पदार्थेषु वाक्यार्थेषु फलिष्यति ॥ ९४७ भाष्योक्तपक्षद्वयस्य समर्थनम् अत्र चाऽऽकृतिरेवेति दृढः पक्षोऽयमेकतः । इतरे त्वन्यतः सर्वे व्यक्तिपक्षानुयायिनः ॥ ९४८ व्यक्तौ निराकृतायां च समस्तानां निराक्रिया । सुलभेति न सर्वेऽमी भाष्यकारेण दर्शिताः ॥ ९४९ न चैतस्मान्न सन्त्येव१ न चैते निष्प्रयोजनाः । विकल्पिता हि जिज्ञासोः प्रज्ञाविकसनक्षमाः ॥ ९५० दर्शितेष्वपि सर्वेषु विचारः क्रियते द्वयोः । का शब्देनाऽऽकृतिव्यक्त्योरुच्यते काऽनुगम्यते ॥ ९५१ ततश्च—विचारमुखसिद्धयर्थं स्वरूपं तावदेतयोः । प्रश्नपूर्वमुपन्यस्य याथात्म्येन निरूप्यते ॥ ९५२ पुनरुक्ति-समाधाने ननु प्रथमपाद एवाऽऽकृतेर्निरूपणादिदानीं प्रश्नोत्तरे मन्दप्रयोजने ? उच्यते—सत्यमेवाऽऽकृतिः पूर्वं प्रत्यक्षेण निरूपिता । संस्थानाशङ्कया त्वत्र सामान्यात्मा निरूप्यते ॥ ९५३ संस्थानाकृत्योर्भेदप्रतिपादनम् द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिरिति । १ क. सत्येव ।