मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 682, कुल 804 में से
संदर्भ में पढ़ें६२८ मीमांसादर्शनम् [ सू० द्रव्यादीनां च सामान्यं परापरविभागवत् । वस्तुत्वं प्रथमं तत्र द्रव्यत्वाद्यपरं तथा ॥ ९५४ पुनर्वायुत्वतेजस्त्वजलत्वात्मत्वभिन्नता । पृथिवीत्वाद् घटत्वं च तद्व्यक्तिषु समाप्यते ॥ ९५५ वृक्षत्वात्परतश्चेष्टं शिंशपात्वादि केवलम् । शरीरत्वाच्च गो-वाजि-हस्ति-पुंस्त्वादि गम्यते¹ ॥ ९५६ वाजिकत्वादि चाश्वत्वात्कर्क्यादिस्तु गुणो मतः । हस्तित्वाद्वद्रमद्रादिदिङ्नागकुलजातयः² ॥ ९५७ पुंस्त्वाद् ब्राह्मणकौण्डिन्यकठत्वादिसमाप्यते । तथा गुणत्वकर्मत्वरूपता जन्मतादि यत् ॥ ९५८ ततः शुक्लादि तद्व्यक्तिगुणेषु प्रतितिष्ठति । शब्दान्तरादिभिः षड्भिः प्रमाणैः कर्मभेदः कर्मणामपि यागत्वहोमत्वादिविभागतः ॥ ९५९ अपर्यायस्मृतेरुक्तं धातुभिः प्रविभज्यते । पुनर्विधानसंख्याख्या गुणप्रकरणान्तरैः ॥ ९६० तार्किकमतजैमिनिमतयोरुपन्यासः अन्ये तु भेदमाचार्याः कर्मणामेव मन्वते । अपि वाऽव्यतिरेकात्स्याद्देशादेरेकरूपता ॥ ९६१ रूपशब्दाविभागाच्च वक्ष्येतद्धि³ जैमिनिः । एवं प्रपञ्चितं सर्वमर्थसामान्यमाकृतिः ॥ ९६२ न संस्थानं कुतो ह्येतदात्मादिगुणकर्मसु । सर्वेषु हि पार्थिवेषु गवादिघटादिषु संस्थानं भवेत् । अग्नितोयवाय्वाका- शादीनां तु पार्थिवद्रव्यपरिग्रहवशादाकारानुवृत्तिः कल्प्येत, न स्वातन्त्र्येण । दिक्कालात्ममनसां तु गुणकर्मणां च न कथंचिदपि संस्थानं संभवति । सामान्य- मात्रं तु सर्वस्वविशेषानुवृत्तिरूपं संभाव्यते । तस्मादेतदेवाभिधेयाकृतिकलक्षणम्, नावयवरचनासंस्थानाकृतित्वमवकल्पते । संस्थानस्य च नाशित्वात्प्रतिव्यक्ति च भेदतः । सामान्यव्यवहारित्वं नाऽऽकृतित्वेऽवकल्पते ॥ ९६३ १ क. ( टिप्पणियां ) कथ्यते । २ क. दिग्नाग । ३. जै० सू० ( ६-३-४ ) इत्यत्रेति शेषः ।