मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 683, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६३१ अथ संस्थानसामान्यमाकृतित्वेन गृह्यते । अश्वादिष्वपि तुल्यत्वाद्भवेदाकृतिसंकरः ॥ ९६४ न चावान्तरसंख्यानं सर्वगोपिण्डवृत्ति यत् । अश्वादिभ्यो निवृत्तं च गोशब्दा लम्बनं भवेत् ॥ ९६५ तस्य ह्युपलक्षणालोच्यमानं न जातेरन्यल्लभ्यते, ततश्च जातिरेव सामा- न्यमिति न्यायेनाऽऽपद्यते । तेन प्रथमपादे रुचक-स्वास्तिक-वर्धमानकोदाहरणात्सं- स्थानाकृत्यभिधानाच्छङ्काक्ष्यादर्शनवदासीदित्येताभ्यां प्रश्नोत्तराभ्यां व्यावय्र्त्यते । अतश्च द्रव्यगुणकर्मणां यावत्किंचित्प्राग्व्यक्तिभ्यः सामान्यम्, तत्सर्वमाकृतिरेवेत्य- भिप्रत्य मात्रशब्दः प्रयुक्तः । असाधारणविशेषा व्यक्तिरिति । केचिदाहुः—असाधारणा विशेषा एव व्यक्तिः । विशेषव्यतिरिक्तव्यक्त्य- भावादिति । तन्निरासः तत्तु नैवं विशेषेभ्यो व्यक्तिरन्यैव हीष्यते । खण्डमुण्डादयः सर्वे विशेषत्वेन संमताः ॥ ९६६ ते चान्यत्रापि दृश्यन्ते तथा जात्यन्तरेष्वपि । शावलेयादिभेदोऽस्ति तदपत्यान्तरेष्वपि ॥ ९६७ खण्डमुण्डादयस्तावदन्या अपि व्यक्तयो भवन्त्येव, गवयमहिषादिव्यक्तयश्च । शाबलेयोऽपि यथैकः तथाऽन्योऽपि यः शबलापत्यत्वेन गम्यते, स सर्वः शाबलेयः । एतच्चोभयवर्णनिमित्तम्, यादृच्छिकं वा, नामाऽन्यत्रापि विनियोगवशाद्वर्तत एव । तदपत्ये च शाबलेय इत्यसाधारणव्यपदेशानुपपत्तिः । विशेषव्यक्तिशब्दयोर्बहु- वचनैकवचनान्तयोः सामानाधिकरण्यप्रयोगवचनभेदाददोषः । अत्र शंकासमाधाने तस्मादसाधारणा विशेषा यस्यां सा व्यक्तिरित्येवं व्याख्येयम् । स्वमतोपन्यासः ननु पूर्वोक्तेन न्यायेन खण्डादीनामपि बहुव्यक्तिसाधारण्याद्व्यक्तिव्यतिरिक्तानां चान्येषां केवलैकैकव्यक्तिगतानां विशेषाणामसंभवाद्वहुव्रीहिरप्यनुपपन्नः । उच्यते । नैव विशेषाणां प्रत्येकमसाधारणत्वमाश्रित्य व्यक्तिविशेषणत्वेनोपादानम् । कथं तर्हि साधारणरूपाणामप्येकद्वित्रादिभेदेन क्वचिदुपलब्धानाम्, यदेकत्र पिण्डी- कृतानां ग्रहणम्, तदपेक्षमसाधारणविशेषत्वाभिधानम् । प्रविप्रकीर्णा हि ये दृष्टा दृश्यन्ते संहताः पुनः । पिण्डासाधारणत्वेन तैर्व्यक्तिरुपलक्ष्यते ॥ ९६८