मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 684, कुल 804 में से
संदर्भ में पढ़ें६३० मीमांसादर्शनम् [ सू० न चैकस्यां व्यक्तौ ये समुदिता दृष्टाः त एव व्यक्त्यन्तरेऽप्यन्यूनतानतिरिक्ता दृश्यन्ते । य एवादृष्टपूर्वस्तस्मिन्समुदाये संप्रति दृश्यते, स एवासाधारणतामापाद- यति । अनन्तभेदास्वपि व्यक्तिषु नात्यन्तापूर्वविशेषणोपलक्षणोपादानं किंचिदु- त्कर्षापकर्षमात्रेण च सर्वत्रासाधारणोपलक्षणलाभात्परसामान्यापेक्षया च सर्वाण्ये- वावान्तरसामान्यानि विशेषव्यपदेशं प्राप्नुवन्ति । संघातावस्थायां च व्यक्तिविशे- षणत्वात्तेषु विशेषशब्दः । एतच्च व्यक्तेर्विशेषाणामन्यत्वमुपरिष्टाद्भाष्यकारोऽपि वक्ष्यत्येव, 'योऽर्थः सामान्यस्य विशेषाणां चाऽऽश्रयः, सा व्यक्तिरिति । भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्यानुवादः तत्र 'केचिद् गोत्वादिषु विशेषत्वमङ्गीकृत्य सामान्यवाचिना शब्देनाऽनाभिधे- यत्वाद्यदेव महासामान्यं सत्ता-वस्तु-भावशब्दाभिधेयम्, तदेव शब्दस्वरूपव्यवच्छिन्नं वा गोसत्ताख्यमाकृत्यभिधानपक्षे वाच्यमिति मन्यन्ते । यथाऽऽहुः—अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥ इति ९६९ (वा. का. श्लो.) तन्निरासः तत्तु कक्ष्याविभागेन² सामान्यानां निरूपणात् । अयुक्तं न गवादीनां तत्र वाचकशक्तता ॥ ९७० प्रतिनियतार्थविषया हि शब्दानां वाचकशक्तिरर्थापत्त्या गम्यते । तत्रानन्ता- वान्तरसामान्यवचनानां द्रव्य-गुण-कर्मशब्दानामेव तावदसंकीर्णार्थत्वात्सत्तार्थत्व- मनुपपन्नम्, किमुत दूरान्तरितार्थगवादिशब्दानाम् । सत्तामेते वदन्तश्च न शुद्धां सविशेषणाम् । वदन्तीत्यभिधातुं हि शक्यं द्वेधाऽप्यसंभवात् ॥ ९७१ शुद्धवचनत्वे तावत्सर्वेषामेकार्थप्रत्यायनात्पर्यायत्वप्रसङ्गः । पुनरुक्तवाच्चा- स्तिशब्दप्रयोगानुपपत्तिः । गौनास्तीति प्रयोगश्च विरोधान्नावकल्पते । न हि सत्तैव नास्तीति कथंचित्संप्रतीयते ॥ ९७२ १. कक्ष्याशब्दः कोष्ठवाचां, द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावान्तरसामान्यकक्ष्यायां पृथिवीत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायां रूपत्वादीनि गुणत्वावान्तरसामान्य- कक्ष्यायां च वर्तन्त इति कक्ष्याविभागो ज्ञेयः । २. जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यति इति निरुक्तोक्ताः षड् भावविकारा ज्ञेयाः । अत्र च योऽस्तिशब्देन द्वितीयो भावविकार उच्यते स एव सत्तेत्येतद्युज्यत इत्यर्थः ।