मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 685, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६३१ देशकालद्यपेक्षायामपि नैव सत्तायां नास्तित्वमभिधातुं युक्तम्, विभुत्व- नित्यत्वाभ्यां सर्वदेशकालव्यापित्वात् । रूढिशब्दश्च नैवायं लोकदृष्ट्या प्रतीयते । तेन द्रव्यादिसामान्यं सत्तेत्येतन्न युज्यते ॥ ९७३ य एव ह्यस्तिशब्देन द्वितीयो भावविकार १ उच्यते । जायमानविपरिणा- माद्यवस्थसर्ववस्तुषु विनश्यत्तापर्यन्तेषु वस्वाकृतिप्रतिपत्तिर्दृश्यते । तेन यदि नाम महासामान्यमभिधेयं प्रतिज्ञायते, ततो वस्त्वर्थः सर्वशब्दानामिति प्रत्याय्यलक्षण- मिति कामं वक्तव्यम्, न अस्त्यर्थ इति । न चावयवार्थपरित्यागेन सच्छब्द-सत्ता- शब्दौ वर्तेते इति भवच्छब्दवदेवास्तीति सद्भावः सत्तेति, न तु वैशेषिकपरिभाषया यतो द्रव्यगुणकर्मसु सदिति प्रतीतिः सा वैशेषिकाभिमतसत्तासामान्यस्योपन्यास- निरासौ सत्तेति । एवंलक्षणा जातिः प्रतिपत्तव्या । सेयमव्ययशब्देन वस्तुपर्यायवाचिना । भवत्साधारणार्थेन प्रसिद्धिरुपपादिता ॥ ९७४ अस्तित्वमस्तितेत्येवं दृश्येते प्रत्ययौ यतः । स वस्तुवचनः शब्द आख्यातप्रतिरूपकः ॥ ९७५ अप्रातिपादिकत्वाद्वि नाऽऽख्यातात्तत्त्वतौ स्मृतौ । अस्तिक्षीरा समासश्च तेन सद्वाचिनेष्यते ॥ ९७६ अस्तिक्षीरा गौरिति तिङन्तसमासत्वेनानुपसंख्यानादवश्यंभाविप्रत्ययलक्षण- द्वारसुबन्तत्वयोग्याव्ययपदेन सह क्षीराशब्दस्यान्यपदार्थे बहुव्रीहिरभ्युपगन्तव्यः । तत्र चायं सदर्थवचनः, सक्षीरा गौरिति प्रत्ययोत्पादात् । ततश्च वस्तुनि सति च प्रयुज्यमानमस्तिशब्दमुपलभ्य तदर्थानुसरणप्रत्यासन्नं सच्छब्दं च देवात्तल्लिति च स्वार्थिकं देवतेतितिवत्तलमिहाप्यस्तिधातुवाच्यार्थविशिष्टकर्तृप्रतीतिमनङ्गीकृत्य शुद्धधात्वर्थमात्रवचनावेव सच्छब्दसत्ताशब्दौ गृहीत्वैवं तार्किकैः कल्पितं सच्छब्द- वाच्या सत्ता महासामान्यमिति । तदुक्तान्तगमनेऽनादराच्च २ पदवाक्यविद्भिरप्यु- पेक्षितं प्रसिद्धमिवेमामवस्थां प्राप्तं गवादिशब्दवाच्यत्वेनापि संभाव्यते । १. क. गोत्वादिविशेषव्यवच्छिन्नं (इत्यधिकम्) २. तदुक्तेति-यावद्यावद्विवादाय मुक्तं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते । इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निराकृतस्यापि पुनःपुनरुद्भवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने—समापने अनादरादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां युक्तायुक्तविचारावस्थां प्राप्तमित्यर्थः ।