भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 692, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 692

तथात्र 'वषट्कर्त्तुः प्रथमभक्ष' इतिवत् समासान्निष्कृष्य गोमात्रस्योद्देशायोगात् देवगवानां चोत्तानवहनवदसिद्धत्वाविशेषात् कथंचित् सिद्धेश्चोत्तानवहनस्यापि सम्भवाद्यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणमित्यनेन न्यायेन प्राथम्योपात्तोत्तानवहनोद्देशप्रतीतेस्तदुद्देशेन गोशब्दवाच्यत्वविध्याश्रयणात्स्वरसतः प्रतीयमानस्य देवगवोद्देशेनोत्तानवहनविधौ भङ्गः कृत इत्यर्थः । नन्वेवं सति य उत्ताना वहन्ति ते देवानां गोशब्दवाच्या इति वेदवाक्यगतपदपौर्वा- पर्यालोचनेनालौकिकस्याप्यर्थस्य यूपादिवत्प्रतीतिसिद्धेर्लौकिकवैदिकशब्दार्थान्यत्वेऽपि व्यक्त्याकृतिचिन्तोपपत्तेरुपोद्घातोऽनर्थकः स्यादित्याशङ्क्याह सर्वेषां चेति । नन्वर्थावगत्य- भावे कथमस्यार्थान्यथावेदकतेत्याशङ्क्यापातप्रतिभानेन लिङ्गमपेतपूर्वपक्षिणोक्तम् । परमार्थ- तस्तु शब्दान्यमेवार्थान्यहेतुरिति दर्शयितुमाह-ग्राह्यत्वादिति । स्वाध्याय एवोपनीतेनैव त्रैवर्णिकेनैव शुश्रूषासाधितगुरुसम्प्रदायेनैव च ग्राह्यत्वं वैदिकानां धर्म्मः । यदाकदाचित्केन केनचिद्यथा कथंचित् न ग्राह्यत्वं लौकिकमिति धर्म्मभेदः । आदिशब्दो नियतानियतस्वरा- द्यभिप्रायः । नियतैः पदैर्वाक्यरचना वेदे, लोके त्वनियतैः । तद्द्वारा वैदिकानीमानि पदानि, लौकिकानीति व्यपदेशभेदः । वाक्यभेदनिबन्धनत्वात् व्यपदेशभेदस्य, न पदभेदा- पादकतेत्याशङ्कानिराकरणार्थम् --नियतेत्युक्तम् । पदरचनात्मकत्वात् वाक्यानां पदभेदं विना तद्भेदायोगाद्वाक्यभेदनिबन्धनत्वे पदभेदस्येतरेतराश्रयत्वापत्तेः स्वरादिनियमानियम- कृतपदस्वरूपभेदनिबन्धन एव व्यपदेशभेद इत्याशयः । धर्मभेद-व्यपदेशभेदाभ्यां शब्दानां भेदः तद्भेदाच्चार्थानामित्यर्थः । भिन्नानां वर्णानामेकार्थप्रतिपादननिबन्धनत्वेऽर्थभेदस्येतरेत- राश्रयं स्यादित्याशङ्कानिराकरणार्थं पदभेदे कारणान्तरस्य पूर्वोक्तस्योपन्यासः । वनस्पते हिरण्यपर्णेति सामानाधिकरण्यनिर्देशे लोकसिद्धस्य वनस्पतेर्हिरण्यपर्णत्वस्यानु- पलब्धिविरोधेन वनस्पतिशब्दवाच्यत्वप्रतीतेः, घृतस्य च मधुशब्दवाच्यत्वप्रतीतेर्वाक्यस्वार- स्यादेव स्पष्टत्वन्न तत्प्रतिपादकं भाष्यद्वयं व्याख्यातम् । सिद्धान्ते यथाभाष्यं सुयोजमपि सूत्रमाकृत्यधिकरणपूर्वकपक्षेऽन्यथा योजयिष्यमाणत्वाद्विधैकार्थं योजयति-प्रयोगेति । तेष्विति । लौकिकवैदिकशब्दार्थेष्वित्यर्थः । अविभागादिति सूत्रावयवावतारणार्थम्- तस्मादित्युक़्तम् । य एवेतिभाष्येण प्रयोगचोदनाभावादित्यकारप्रश्लेषं विना व्याख्याय, इतरथेत्यनेनाकारप्रश्लेषेण व्याख्यानान्तरं कृतम् । तत्रैकत्वेऽनेकत्वे चोभयभावप्राप्तावेकत्वे सति पुनर्वचनस्य परिसंख्यार्थत्वापत्तेर्द्वितीयमेव व्याख्यानं सम्मतमिति सूचयितुमादौ व्याचष्टे - भेदे सतीति । आद्यव्याख्यानं व्याचष्टे -एकत्वे सतीति । तस्मादेकशब्दत्वमिति भाष्यम् । सौत्रमर्थपदं शब्दस्याप्युपलक्षणार्थमिति दर्शयितुं द्वेधार्थैकत्वपदं व्याचष्टे- अर्थकत्वमिति । एतदेव प्रपञ्चयति - शब्देति । ननु प्रयोगचोदनाभावादित्यनेनैव शब्दार्थैक- त्वसिद्धेरविभागादित्यनर्थकं हेत्वन्तराभिधानार्थत्वे वा शब्दैक्यमात्रविषयत्वेनाव्यापकतया दौर्बल्याद् बलवति हेतौ प्रयुक्ते दुर्बलोपन्यासः क्लिष्टो भवतीत्यनेन न्यायेन पूर्वमुपन्यस्येते- त्याशङ्क्योच्यत इति भाष्येण पूर्वस्य प्रयोजनाभिधानार्थत्वादेतदेव हेत्वभिधानमित्युक्त-