मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 692, कुल 804 में से
संदर्भ में पढ़ेंतथात्र 'वषट्कर्त्तुः प्रथमभक्ष' इतिवत् समासान्निष्कृष्य गोमात्रस्योद्देशायोगात् देवगवानां चोत्तानवहनवदसिद्धत्वाविशेषात् कथंचित् सिद्धेश्चोत्तानवहनस्यापि सम्भवाद्यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणमित्यनेन न्यायेन प्राथम्योपात्तोत्तानवहनोद्देशप्रतीतेस्तदुद्देशेन गोशब्दवाच्यत्वविध्याश्रयणात्स्वरसतः प्रतीयमानस्य देवगवोद्देशेनोत्तानवहनविधौ भङ्गः कृत इत्यर्थः । नन्वेवं सति य उत्ताना वहन्ति ते देवानां गोशब्दवाच्या इति वेदवाक्यगतपदपौर्वा- पर्यालोचनेनालौकिकस्याप्यर्थस्य यूपादिवत्प्रतीतिसिद्धेर्लौकिकवैदिकशब्दार्थान्यत्वेऽपि व्यक्त्याकृतिचिन्तोपपत्तेरुपोद्घातोऽनर्थकः स्यादित्याशङ्क्याह सर्वेषां चेति । नन्वर्थावगत्य- भावे कथमस्यार्थान्यथावेदकतेत्याशङ्क्यापातप्रतिभानेन लिङ्गमपेतपूर्वपक्षिणोक्तम् । परमार्थ- तस्तु शब्दान्यमेवार्थान्यहेतुरिति दर्शयितुमाह-ग्राह्यत्वादिति । स्वाध्याय एवोपनीतेनैव त्रैवर्णिकेनैव शुश्रूषासाधितगुरुसम्प्रदायेनैव च ग्राह्यत्वं वैदिकानां धर्म्मः । यदाकदाचित्केन केनचिद्यथा कथंचित् न ग्राह्यत्वं लौकिकमिति धर्म्मभेदः । आदिशब्दो नियतानियतस्वरा- द्यभिप्रायः । नियतैः पदैर्वाक्यरचना वेदे, लोके त्वनियतैः । तद्द्वारा वैदिकानीमानि पदानि, लौकिकानीति व्यपदेशभेदः । वाक्यभेदनिबन्धनत्वात् व्यपदेशभेदस्य, न पदभेदा- पादकतेत्याशङ्कानिराकरणार्थम् --नियतेत्युक्तम् । पदरचनात्मकत्वात् वाक्यानां पदभेदं विना तद्भेदायोगाद्वाक्यभेदनिबन्धनत्वे पदभेदस्येतरेतराश्रयत्वापत्तेः स्वरादिनियमानियम- कृतपदस्वरूपभेदनिबन्धन एव व्यपदेशभेद इत्याशयः । धर्मभेद-व्यपदेशभेदाभ्यां शब्दानां भेदः तद्भेदाच्चार्थानामित्यर्थः । भिन्नानां वर्णानामेकार्थप्रतिपादननिबन्धनत्वेऽर्थभेदस्येतरेत- राश्रयं स्यादित्याशङ्कानिराकरणार्थं पदभेदे कारणान्तरस्य पूर्वोक्तस्योपन्यासः । वनस्पते हिरण्यपर्णेति सामानाधिकरण्यनिर्देशे लोकसिद्धस्य वनस्पतेर्हिरण्यपर्णत्वस्यानु- पलब्धिविरोधेन वनस्पतिशब्दवाच्यत्वप्रतीतेः, घृतस्य च मधुशब्दवाच्यत्वप्रतीतेर्वाक्यस्वार- स्यादेव स्पष्टत्वन्न तत्प्रतिपादकं भाष्यद्वयं व्याख्यातम् । सिद्धान्ते यथाभाष्यं सुयोजमपि सूत्रमाकृत्यधिकरणपूर्वकपक्षेऽन्यथा योजयिष्यमाणत्वाद्विधैकार्थं योजयति-प्रयोगेति । तेष्विति । लौकिकवैदिकशब्दार्थेष्वित्यर्थः । अविभागादिति सूत्रावयवावतारणार्थम्- तस्मादित्युक़्तम् । य एवेतिभाष्येण प्रयोगचोदनाभावादित्यकारप्रश्लेषं विना व्याख्याय, इतरथेत्यनेनाकारप्रश्लेषेण व्याख्यानान्तरं कृतम् । तत्रैकत्वेऽनेकत्वे चोभयभावप्राप्तावेकत्वे सति पुनर्वचनस्य परिसंख्यार्थत्वापत्तेर्द्वितीयमेव व्याख्यानं सम्मतमिति सूचयितुमादौ व्याचष्टे - भेदे सतीति । आद्यव्याख्यानं व्याचष्टे -एकत्वे सतीति । तस्मादेकशब्दत्वमिति भाष्यम् । सौत्रमर्थपदं शब्दस्याप्युपलक्षणार्थमिति दर्शयितुं द्वेधार्थैकत्वपदं व्याचष्टे- अर्थकत्वमिति । एतदेव प्रपञ्चयति - शब्देति । ननु प्रयोगचोदनाभावादित्यनेनैव शब्दार्थैक- त्वसिद्धेरविभागादित्यनर्थकं हेत्वन्तराभिधानार्थत्वे वा शब्दैक्यमात्रविषयत्वेनाव्यापकतया दौर्बल्याद् बलवति हेतौ प्रयुक्ते दुर्बलोपन्यासः क्लिष्टो भवतीत्यनेन न्यायेन पूर्वमुपन्यस्येते- त्याशङ्क्योच्यत इति भाष्येण पूर्वस्य प्रयोजनाभिधानार्थत्वादेतदेव हेत्वभिधानमित्युक्त-