मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 691, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपाद। ६३७ अधीयतेऽस्यामिति व्युत्पत्त्याऽध्ययनतिथिः अध्यायो द्वितीयादिः अष्टम्याद्यनध्ययनतिथिः अध्यायः । वेदवाक्यान्यध्याये यज्ञोपवीतेनैव त्रैवर्णिकेनैव च प्रयोज्यानि, लौकिकान्य- नध्यायेऽप्यनुपनीतेनापि चातुर्वर्ण्येनापि च प्रयोज्यानि, अप्रयोज्यत्वेनाप्रेष्यत्वेन च हेतुना परिचर्यया प्रसादितो यो गुरुस्तदुच्चारणपूर्वकं वेदवाक्यानि प्रयुक्तानि, यदृच्छया प्रयुक्तानि लौकिकानीति, धर्मभेदाच्चाथा लौकिकवैदिकवाक्यानामन्यत्वम् । तदन्यत्वाच्च वाक्यार्थान्यत्वं तथा पदानां धर्मभेदात्पदार्थानां च पदभेदाद् भेद इति पूर्वपक्षं प्रतिज्ञायाऽन्वयः । धर्म- भेदमात्रेण कथं पदभेदः ? कथं च पदभेदमात्रेण पदार्थभेद ? इत्याशङ्काद्वयनिराकरणार्थं हेतुगर्भविशेषणसहितदृष्टान्तोपादानम् । शब्दाभेदे धर्मव्यवस्थावैय्यर्थ्यापत्तेस्तत्साफल्याय शब्दभेदः कल्प्यते । तद्भेदे चौत्सर्गिकोऽर्थभेदः संज्ञा चोत्पत्तिसंयोगादित्यनेन सेत्स्यति पदादृष्टार्थप्रतिपत्त्यर्थस्य शब्दस्यादृष्टार्थेन धर्मेण प्रयोजनाभावादर्थप्रतिपत्त्यर्थमेव धर्मापेक्षे- त्यर्थप्रतिपादनसामाग्र्यतिरेकाद्वाचकभेदो जराराजेति क्रमभेदादिवेत्याशयः । ननु वैदिकपदानां लौकिकेभ्योऽन्यत्वे सम्बन्धग्रहणाभावेनार्थानवधारणादर्थान्यत्वेन पूर्वपक्षो न युक्त इत्याशङ्कयाह—यदीति । लौकिकार्थासम्भव एवानर्थक्येन वेदाप्रामाण्या- पादनायाऽन्यत्वमिषेण पूर्वपक्षिणो वक्तुमभिप्रेतः । निर्विषयत्वाच्च प्रकृतचिन्तानारम्भायैव वेदाप्रामाण्योपपादनायोच्यत इत्यविरोध इत्याशयः । अग्निवृत्राणि जङ्घनदित्यन्यदिदं रूपमिति भाष्यं न्यूनाधिकक्रमान्यत्वाद्यभावेन रूपभेदानुपलब्धेरयुक्तमाशङ्कय व्याचष्टे— स्वरेणेति । लौकिकस्यानियतस्वरत्वात्स्वरानपेक्षस्यार्थप्रतिपादकत्वम्, वेदे तु स्वरनियमा- त्सोऽपि सहकारीति सामग्रीभेदाद् गौगीर् इति वर्णातिरेकवत्स्वरातिरेकात्पदान्यतेत्याशयः । धर्माभिप्रायो वा रूपशब्द इति व्याख्यान्तरमाह—अध्यायेति । कर्मव्युत्पन्नाव- ध्यायानध्यायशब्दौ । यदा कदाचिद्येन केनचिद्यथा कथंचिदध्येयः न वैदिक इत्यर्थः । यद्वा अग्निवृत्राणि जङ्घनदिति वैदिकस्याग्निशब्दस्य वृत्रहननसमर्थवस्तुवाचित्वाव- गमो लौकिकः । व्युत्पन्नाग्निशब्दवाच्यस्य च ज्वलनस्य तदसामर्थ्यात् अर्थान्तरे चाव्युत्पन्न- स्यैव शक्त्यान्तरकल्पने गौरवापत्तेः गत्यर्थस्यागिधातोः ‘शोनिर्नलोपश्चेति’ सूत्रेणौणादिके निप्रत्यये कृतेऽग्निशब्दव्युत्पत्त्यवधारणान्न प्रकृतिप्रत्ययान्वाख्यानभेदेनाव्युत्पन्नाल्लौकिका- दग्निशब्दाद् व्युत्पन्नस्य वैदिकस्याग्निशब्दस्य रूपान्यताभिप्रेतेति व्याख्यान्तरमाह— वृत्रेति । शब्दान्यत्वाच्चेति पदान्यत्वेन पदार्थान्यत्वप्रतिपादकं भाष्यं स्पष्टत्वान्न व्याख्यातम् । अपि चेत्यादिभाष्यं लोकसिद्धानामेव गवां देवसम्बन्धनिमित्तोत्तानवहनात्मकधर्म- विशेषप्रतिपादकत्वेनास्य वाक्यस्य अन्यार्थत्वलिङ्गत्वाभावाद्युक्तमाशङ्क्योपपादयितुमाह— विदग्धेति । यथा ‘यो विदग्धः स नैर्ऋत’ इति स्वरसतो विदग्धोद्देशेन नैर्ऋतत्वविधिः प्रतीयमाना उत्पत्तिशिष्टदेवतावरुद्धे देवतान्तरविध्ययोगाद्यो नैर्ऋतः, स विदग्ध इति- वचनव्यक्त्यन्तराङ्गीकरणेन ‘प्रकरणे सम्भवन्नपकर्षो न कल्प्येतेत्यत्र भाष्यकृता मग्नः ।