मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 690, कुल 804 में से
संदर्भ में पढ़ें६३६ मीमांसादर्शनम् [ सू० वाक्यार्थे प्रमाणम्, अथ व्यक्तेरिति व्याख्या अनेनोक्ता । व्यक्त्याकृतिवाचित्वसन्देहमुप- न्यस्योच्यते इत्यादिभाष्येण मध्ये चिन्तान्तरं कृतम् । तत्किमर्थमित्याशङ्क्य प्रकृतचिन्तो- पोद्घातार्थत्वमाह—तत इति । न निर्णयार्थं विना कापि चिन्ता कर्तुं शक्या । न च निष्फला प्रतितिष्ठति । लौकिकवैदिकशब्दार्थभेदे च वैदिकशब्दार्थचिन्ता निरुपाय । लौकिकशब्दार्थचिन्ता च निष्फला स्यादित्याशयः । नन्वेवं सति प्रतिपदाधिकरणदिवत्प्रकृतचिन्तामनुपक्रम्यैवोपोद्घातचिन्ता कस्मान्न कृतेत्याशङ्क्यानन्तराधिकरणसङ्गतिप्रसङ्गादिति दर्शयितुम्—तत इत्युक्तम् । प्रतिपदाधि- करणादौ तु नानन्तरसङ्गत्यपेक्षा, अध्यायादित्वादित्याशयः ततो व्यक्त्याकृतिवाचित्व- सन्देहोपन्यासानन्तरं वक्ष्यमाणं पूर्वपक्षादिसान्न्यासिकं त्यागार्हं कृत्वा सम्प्रतीदं तावद्वि- चार्यत इत्यन्वयः । त्यागार्थात्संन्यासाप्रातिपदिकात्तदर्हतीत्यस्मिन्नर्थे ठगुत्पत्तेः सान्न्यासिक- पदव्युत्पत्तिः । अहिताशङ्कानिराकरणार्थस्तुशब्दः । किं य एवेति शब्दविषयम् । किं त एवेति चार्थविषयं सन्देहभाष्यद्वयं तन्त्रेण व्याख्या- तुम्—किं य एवेत्युक्तम् । उपायफलसिद्ध्यर्थत्वं प्रश्नपूर्वं विवृणोति -- आहेति । शब्दग्रहण- मर्थानामप्युपलक्षणार्थम् । ननु व्यक्त्याकृतिविचारफलोपाययोर्भिन्नविषयत्वेऽपि लौकिक- वैदिकशब्दार्थैकत्वे यत्नः किमर्थं इत्यपेक्षायामाह- यदीति । एतस्या व्यक्त्याकृतिसन्नि- धानचिन्ताया इति हेतौ पञ्चमी । एतच्छब्दो वेदविषयत्वद्योतनार्थः । निर्णयोपायव्याख्या- नार्थम्—वृद्धेत्युक्तम् । जातेरभिधेयत्वम्, व्यक्तेरनभिधेयत्वमिति निर्णयः, नान्यथेति शेषः । नन्वन्यत्वेऽपि लोकविषयैषा चिन्ता भविष्यतीत्याशङ्कयाह—प्रयोजनं त्विति । शङ्का- निराकरणार्थस्तुशब्दः प्रयोजनाभावमुपपादयति सम्मूर्च्छितेति । आशङ्कामभिप्रायमनूद्य निराकरोति—यदीति । नन्वेवं तर्हि वेदविषयैव चिन्ता, अन्यत्वेऽपि यूपादिशब्दनिर्णयो- पायसम्भवात्सेत्स्यतीत्याशङ्कयाह—स्यादिति । वृद्धव्यवहारस्थाने क्व प्रयोगानुसरणमेवा- कृतिवाचित्वनिर्णयोपायः न यूपादिवच्चव्यक्तिविपर्ययाश्रयणादित्याशयः । अतः शब्दार्था- न्यत्वे एकाङ्गविकलत्वाच्चिन्तेयमनारभ्या स्यादित्याह—तेनेति । ननु शब्दार्थानन्यत्वे फलोपाययोर्भिन्नविषयत्वेनैकाङ्गवैकल्याविषयः स्यादित्या- शङ्कयाह—अभेदे इति । शब्दार्थान्यानन्यत्वचिन्तायाः प्रकृतचिन्तोपोद्घातत्वोपसंहारपूर्वकं पूर्वपक्षमाह—तेनेति । अनेन च तत्रान्यपूर्वपक्षप्रतिज्ञाभाष्यं व्याख्यातम् । अत्र व्यपदेशभेदाद्रूपभेदाच्चेति हेतुद्वयं भाष्यकृतोक्तम् । तत्र व्यपदेशभेदस्य भाष्यकृतैव व्याख्यातत्वादूपभेदं व्याचष्टे— नियतेति । वैदिकेषु पदेषु नियतः स्वरः, लौकिकेष्वनियत । वैदिकेषु च छन्दोविषयतया विहितस्य प्रकृतिप्रत्यययोर्लोपस्य, आगमस्य वा वर्णविकारस्य वा सद्भावः । लौकिकेष्व- सद्भावः तत्कृताद्रूपभेदादित्यर्थः । नन्वेवं सति छान्दोग्यब्राह्मणेषु स्वरनियमाभावाद् गवादिशब्देषु च प्रकृतिलोपाद्यभावाच्च भेदः सिद्ध्येदित्याशङ्क्य, धर्मभेदाभिप्रायेण रूपभेदं व्याख्यातुमाह — अध्यायेति ।