मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 689, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये तृतीयपादः ६३५ नाऽऽकृतिः । न च विकल्पसमुच्चय-सम्बन्ध-समुदायान्यतरविशिष्टान्यतराभिधान- पक्षाः सम्भवन्ति, अविभागादेव सर्वेषामपि ज्ञानसिद्धेः । अपि चाद्रव्यशब्दत्वाद् व्यक्तेरेवाभिधेयता । सामानाधिकरण्यं हि नाऽऽकृत्यर्थ-गुणार्थयोः ॥ ९९४ ३० ॥ ॥ आकृतिशक्त्यधिकरणम् ॥ न्या० सु०—अत्र भाष्यकारेणाथ गौरित्येवमादयः शब्दाः किमाकृतेर्वाचकाः सन्तो वाच्यार्थे प्रमाणमुत व्यक्तेरिति गवादिविशेषणोपादानान्न सर्वशब्दानामेतद्विचारविधेयतेति सूचितम् । तत्र केषां शब्दानां व्यावृत्तिर्विवक्षितेत्यपेक्षायां जातिशब्दानामेवोदाहरणत्वमङ्गी- कृत्य, तद्व्यतिरिक्तानां व्यावृत्तिरिति दर्शयितुमाह—इहेति । आख्यातशब्दार्थस्य द्वितीयाद्ये विचारयिष्यमाणत्वान्निपातोपसर्गाणां च स्वतन्त्रार्थाभिधायकत्वाभावान्नान्येषामुदाहरण- त्वेन गृह्यन्ते । तेषामपि षड्विधानां मध्ये शुक्लादिगुणानाम् एतयैव दिशा वाच्या शुक्ला- देरपि नित्यतेत्यादिवार्त्तिकोक्तन्यायेनावान्तरभेदाभावेन गुणशब्दानां जातिवाचित्वायोगात्, क्रियाणामप्यर्थप्रत्यक्षे नित्य एवेति भाष्येणावान्तरभेदस्य संख्याभावसूत्रे निराकृतत्वेन, यागादिशब्दानामपि जातिवाचित्वायोगात् पाकाद्येकोपाधियोगेन वाऽनेकत्र पाचकत्वाद्ये- काकारे प्रत्ययोपपत्तेः । पाचकत्वादिजात्यभावेन तच्छब्दानामपि जातिवाचित्वायोगात्, देवदत्तादिशब्दानां च सङ्केतितार्थविशेषवाचित्वात् सर्वनामशब्दानां च सन्निहितार्थविशेष- वाचित्वाज्जातिशब्दानामेवात्रैवमादय इति सादृश्यवचनेनैव शब्देनैवोदाहरणत्वं सूचित- मित्यर्थः । परमतेन चैतदुक्तम् । स्वमते तु— ततः शुक्लादितद्व्यक्तिगुणेषु प्रतितिष्ठति । इत्यादिना गुणकर्म्मणोरप्यवान्तरभेदाम्युपगमादाख्याताथं विना पौनरुक्त्य चोत्तर- प्रस्थाने परिहरिष्यमाणत्वात् गुणक्रियाशब्दानामप्याख्यातानामपि चोदाहरणत्वमस्त्येव । तथा चोपसंहारभाष्यव्याख्याने गवादिग्शब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थमिति वक्ष्यति । नन्वेवं सति जातिशब्दा इत्येव स्पष्टत्वादुदाहरणनिर्देशः कार्यः । गोशब्दोदाहरणं तु किमर्थमित्याशङ्क्य, पूर्वाधिकरणे गोशब्दस्य गाव्यादिशब्दव्युदासेन साधुत्वाभिधानात्क- स्मिन्नर्थे तस्य साधुतेति प्रासङ्गिकी । सङ्गतिसूचनाथं तदुदाहरणमिति दर्शयितुमाह— तेषामपीति । गोशब्दमुदाहृत्य यदिचार्यते तत्पूर्वाधिकरणोदाहरणेन सहैतदधिकरणादा- हरणस्यैकत्वं सङ्गतिसूचनाय दर्शयितुमित्यर्थः । ननु पदार्थप्रामाण्यस्य शब्दे निरा कृतत्वात्किमाकृतेः प्रमाणमित्युक्तमित्याशङ्कयावाचकव्यतिरेकजनिते षष्ठ्या विनैव प्रामाण्यव्यतिरेकजनिते इति व्याख्यातुमाह—किं पुनरिति । किमाकृतेर्वाचकाः सन्तो