मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 698, कुल 804 में से
संदर्भ में पढ़ें६४४ मीमांसादर्शनम् [ सू० का पुनरिति भाष्येणाकृतिव्यक्त्योः प्रश्नपूर्वकं स्वरूपनिरूपणं कृतम् । तस्य प्रयोजनमाह-ततश्चेति । विषयावधारणं विचारमुखम् । ननु सम्बन्धादीनामपि विचार- विषयत्वात्किमिति स्वरूपं न निरूपितमित्याशङ्कच प्राधान्येनाकृतिव्यक्त्योरेव विचार- विषयत्वमनन्तरोक्तम् ततश्चेत्यनेन कारणतया परामृष्टम् । अकृतित्वस्वरूपनिरूपणस्य पौनरुक्त्यमाशङ्कते-नन्विति । परिहरति - सत्यमिति । मात्रशब्दं सर्वसामान्यव्याप्त्यर्थ- त्वेन व्याख्यातुं भाष्यपाठपूर्वकं सामान्यानि विभजति-द्रव्येति । प्रथमशब्देन परशब्दः कुतश्चिद्व्यावृत्तत्वात्सर्वसामान्योक्तत्वाभिप्रायेण व्याख्यातः । गुणत्वकर्मत्वयोरादिशब्दे- नोपादानम् । द्रव्यत्वावान्तरसामान्यानि विभजति- पुनरिति । वायुत्वादीनां भिन्नतेत्यर्थः । पृथिवीत्वस्य तद्भेदघटत्वादिसामान्योक्त्या ज्ञातुं शक्यत्पादनुपन्यासः मनोभेदस्य चात्मभेदाधीनत्वादात्मत्वसामान्योक्त्यैव मनस्त्वसामान्यसिद्धेरनुपन्यासः । पृथिवी- त्वावान्तरसामान्यावधिभेदेन विभजति-- पृथिवीत्वादिति । पृथिवीत्वात्परं पाश्चात्यं घटत्वं घटव्यक्तिषु समाप्य, एतेषु घटत्वं तद्व्यक्तिष्वन्यं सामान्यमित्यर्थः । घटत्वादीन्यन्यानि घटत्वेनैव व्याख्यातानि । वृक्षत्वात्तु पृथिवीत्वावान्तरसामान्यात्परं शिंशपात्वाद्येवान्त्यं सामान्यमित्याह-वृक्षत्वादिति । शरीरत्वात्परं गोत्वादीत्याह-शरीरत्वाच्चेति । मनुष्यत्ववाची पुंस्त्वशब्दः । गोत्वात्परस्य सामान्यस्याभावात् त्यागेनाश्वत्वात्परं वाजिकत्वाद्यन्त्यं सामान्यमित्याह-वाजिकत्वादि चेति । ननु कर्कत्वशोणत्वादेरप्यवान्तर- सामान्यस्य भावान्न वाजिकत्वादेरन्त्यतेत्याशङ्क्य - कर्कादित्वेति । अश्वत्वैकार्थसम- वायिशुक्लावान्तरसामान्यं कर्कत्वम् । रक्तावान्तरसामान्यं शोणत्वमित्यर्थः । हस्तित्वात्परा भद्रादिजातयोऽन्त्या इत्याह - हस्तित्वादिति । आदिशब्देन मृगजात्युपादानं ताश्च दिङ्नागकुलजातास्वेव हस्तिव्यक्तिषु वर्तन्त इति दिङ्नागकुलशब्देनोक्तम् । मनुष्यत्वात्प- रोऽवान्तरसामान्यभेदो ब्राह्मणत्वं ग्राह्यत्वात्सामान्यावान्तरभेदात्कौण्डिन्यत्वाद्दी सामान्ये समाप्यत इत्याह पुंस्त्वादिति । द्रव्यावान्तरसामान्यानि विभज्य, गुणकर्मावान्तर- सामान्यानि विभज्य, गुणकर्मावान्तरसामान्यानि विभक्तुमाह -तथेति । गुणत्वस्य रूपतादि यदवान्तरसामान्यम्, कर्मत्वस्य च जन्मतादि, ततः परं यच्छुक्लत्वादिरूपावान्तरसामान्यं तच्छुक्लत्वादिसामान्यव्यक्तिभूतेषु भासुरधूसरादिषु गुणेषु प्रतितिष्ठतीति समाप्यते । शुक्लत्वादेः परं सामान्यं नास्तीत्यर्थः । ये तु शुक्लत्वाद्यवान्तरसामान्यस्य कर्कत्वादेर्व्यक्तिभूता गुणाः तेषु शुक्लत्वादि न प्रतितिष्ठतीति विशेषसूचनार्थस्तच्छब्दः : असिद्धस्य कर्तुः स्वात्मलाभफलकव्यापारसामान्यं जन्मत्वम् । सिद्धस्य कर्तुरनात्मलाभफलकव्यापारसामान्यं- यागत्वादिशब्देनोक्तम् । कर्मत्वावान्तरसामन्यस्य जन्मतवस्यावान्तरसामान्याभावात्तत्यागेनान्यात्मलाभफलक- सिद्धकर्तृव्यापारात्मककर्मावान्तरसामान्यानि यागत्वादीनि विभजति - कर्मणामपीति । कर्मावान्तरसामान्यं यागत्वादि यजतिददातीत्यादिभिर्धातुभिर्विभागेनोक्तमित्युक्तेन यजदेव- पूजासङ्गतिकरणदानेषु ह्रुदानादनयोर्दुदाञ्दान इति त्रयाणामपि दानवाचित्वेन पर्यायतया