मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 699, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपाद। ६४५ स्मृतत्वात्कथं विभागार्थं हेतुतेत्याशङ्कयाऽपर्यायेत्युक्तं प्रक्षेपपरस्वत्वापादनवाचित्वेन लोक- तोऽर्थभेदावगतेर्व्याकरणस्य शब्दान्वाख्यानमात्रार्थत्वेनार्थतात्पर्याभावात्स्वत्वनिवृत्त्यंशोप- लक्षणमात्रार्थत्वेन च यजिजुहोतिस्मृत्योर्दानशब्दोपपत्तेर्दानपर्यायस्मृत्योत्सारणमिव त्याग- त्वादेरप्यवान्तरविभागोऽभ्यासादिभिः क्रियत इत्याह—प्रविभज्यत इति । विधानशब्देनास- कृद्विधिरभ्यासो—नासकृच्छ्रु तिमात्राभित्युक्तम् । संख्योत्पत्तिगता द्वयादिका संख्याऽप्यन्य- लिङ्गैव । गुणो पूर्वंसंयोगाह्रैः, अनुपादेयसम्बन्धसचिवो सन्निधिः प्रकरणान्तरम् । ननु यागत्वदिजात्यभ्युपगमे यजत्यादीनामपि विचारविषयत्वोपपत्तेर्जातिशब्दा एव चिन्त्यत इति किमित्युक्तमित्याशङ्कयाह—अन्ये त्विति । कर्मणामेव यागहोमादिरूपेण भेदः, न यागादीनां ज्योतिष्टोमदर्शपूर्णमासादिरूपेणेति येषां मतम्, तदभिप्रायेण जातिशब्दा- नामेवोदाहरणतोक्तेत्याशयः । किं तेषां यागादिभेदाभावभ्रान्तौ कारणमित्यपेक्षायाम् अपि वाऽव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदेककर्म्यं स्यान्नामधेयं च सत्त्ववदिति (६.३.१२) षष्ठाधिकरणसिद्धान्तसूत्रगतमैककर्म्यशब्दं भ्रान्तिकारणं दर्शयितुमाह—अपि चेति । ऐक्य- शब्दोक्तस्य प्रत्यभिज्ञानस्य सादृश्यनिमित्तत्वाशङ्कानिवृत्त्यर्थं देवतोद्देशपूर्वकद्रव्यत्यागात्मक- रूपाभेदात्तत्प्रतिपादकयज्यादिशब्दाभेदाच्च कर्मभेदे प्रमाणाभावान्न सादृश्य—निमित्तता युक्तेत्युक्तम् । द्रव्यान्तरेण नीवारादिना कृतस्य कर्मणो व्रीह्यादिद्रव्यकादर्शपूर्णमासादेर्या- गाद् भेदापत्तेर्न प्रतिनिध्युपादानं युक्तमिति प्रतिपादनार्थेन 'क्रियाणामाश्रितत्वादू द्रव्यान्तरे विभागः स्यात् (६-३-११) इति पूर्वपक्षसूत्रेणोक्तमाश्रयभेदेन भेदं निराकत्तुं गोत्ववदिति दृष्टान्तितम् । यथा सत्त्वस्य गोत्वादेः पदार्थस्य गौरित्याद्यभिन्नं नामधेयमभेदापादकम्, तथा प्रतिनिधिनिष्पादितेऽपि कर्मणि दर्शपूर्णमासादिनामधेयं याज्ञिकैः प्रयुक्तमभेदापादकमिति युक्त्यन्तरम् । प्रत्यभिज्ञानेनैवैक्ये सिद्धेऽभ्युच्चयमात्रत्वान्नेहोपन्यस्तम् । प्रतिनिधिनिष्पा- दितकर्मविषयविषयस्याप्यस्य न्यायस्य विध्यन्तरविहितेष्वपि तुल्यत्वं मन्वानानामभि- प्रायेणैतदुदाहृतम् । एवं सामान्यानि विभज्य, सर्वव्याप्त्यर्थत्वेन भाष्यं व्याचष्टे— एवमिति । नन्वाकृतिशब्दस्य संस्थानवाचित्वमक्षपादाद्युक्तं परित्यज्य, जातिवाचित्वं किमित्युक्तमित्याशङ्कयात्मादिषु द्रव्येषु, गुणकर्मसु चाभावादित्याह—नेति । क्व पुनः संस्थानमस्ति, क्व वा नेत्यपेक्षायामाह । पार्थिवेषु संस्थानं स्वाभाविकम्, जन्मादिषु औपाधिकमिति निरूपणम्—सर्वेषु हीति । पार्थिवेषु स्वाभाविकं संस्थानम् । अग्नेर्ज्वलनादिन्धनसंस्थानानुसारिसंस्थानभेददर्शनात् तोयस्य चाधारभूते पात्रसंस्थानानुसारिसंस्थानभेददर्शनाद्, घटाद्यवच्छिन्नाकाशस्य चावच्छेदकघटादि- संस्थानानुसारिसंस्थानभेददर्शनाद्, वायोश्च घटाद्यवच्छिन्नाकाशसञ्चारिणो घटादिसंस्थाना- नुसारिसंस्थानभेददर्शनादौपाधिकम् । यद्यपि क्वचिद् वृष्ट्युदकोद्भवंगतज्वालादौ पार्थिव- द्रव्यपरिग्रहाभावेऽप्याकारः संस्थानापरपर्यायः प्रतीयते, तथापि विलक्षणाकारस्याप्यग्नि- तोयव्यक्तिष्वग्नितोयशब्दप्रयोगान्नैकशब्दवाच्यत्वयोग्यः सर्वाग्नितोयव्यक्त्यनुवृत्तैक आकारश्च पद्यरचनात्मकसंस्थानशब्दवाच्यो योऽभिधेयाकृतिकलक्षणं स्यादित्यनुवृत्तिशब्देन सूचितम् ।