मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 701, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६४७ वार्त्तिकश्लोकस्थ इत्यर्थं । शाबलेयशब्दप्रकृतिभूतशबलाप्रातिपदिकपरामर्शार्थत्वेन व्याख्यातः । एतच्चेत्यनेनादिशब्दोक्तं शबलाख्यविशेषस्य साधारण्यं व्याख्यातम् । एतदेव शबलेति नामाऽन्यत्रापि व्यक्तौ वर्त्तत इत्यर्थः । कथमित्यपेक्षिते प्रकारद्वयमुक्तं याहच्छि- कत्वासिद्धौ—सङ्केतवशादित्युक्तम् । नामशब्देनावास्तवोऽपि वर्णद्वयशून्योऽयं विशेषः प्रोक्तव्य इति सूचितम् । याहच्छिकशबलापत्ये साधारणार्थं तदपत्ये वेति पुनर्वचनं शाबलेय इति नाम वर्त्तत इत्याद्यनुषङ्गेण योज्यम् । ननु साधारण्येऽपि व्यक्तिमात्रलक्षणार्थ- त्वेनादोषो भविष्यतीत्याशङ्कयाह—असाधारणेति । दोषान्तराभिधानार्थं चेदमुक्तम् । दोषान्तरमाह—विशेषेति । व्यक्तिशब्दस्य समुदायवाचित्वाभावान्न वृक्षा वनमित्ये- तत्तुल्यतेत्याशयः । स्वमतेन व्याचष्टे—तस्मादिति । दोषसाम्यमाशङ्कते—नन्विति । या व्यक्तिः सौत्रं लक्षणेति लक्षणत्वेनोपादीयमानानां विशेषाणां समुदायेनासाधारण्येन च विशेषणाद्युक्तम- साधारण्यम् । परमते तु विशेषव्यतिरिक्ताय व्यक्तेरभावेनोद्देश्यत्वायोगाच्चे विशेषास्ते व्यक्तिशब्दवाच्या इत्युद्देश्यानां विशेषाणामविशेषेण व्यक्तिविशेषशब्दयोः पर्यायत्वापत्ते- स्तन्निवृत्त्यर्थम्, मृष्यामहे हविषा विशेषणमितिवदेकस्मिन् विशेषणे कृतेऽर्थसिद्धेर्विशेषणान्त- रस्य विवक्षितुमशक्यत्वाच्छू तेनासाधारण्येन विशेषितानां व्यक्तिशब्देनेत्यर्थः । समुदायेन विशेषणानुपपत्तेः प्रत्येकमेव विशेषाणां व्यक्तिशब्दवाच्यत्वप्रसङ्गाद्वैषम्यमभिप्रेत्य परिहरति—उच्यत इति । ननु विशेषसमुदायाश्रयत्वमात्रेण व्यक्त्युपलक्षणसिद्धेः किम- साधारणविशेषणेनेत्याशङ्कयाह—प्रविभक्ता हीति । पिण्डात्मना समुदायात्मना साधारण- त्वेनेत्यर्थः । विशिष्टा व्यक्तिर्गवादिशब्दवाच्यत्वेनाभिमता । नासाधारण्यं विनोपलक्षयितुं शक्येत्याशयः । नन्वेवं सत्यत्यन्तसहस्रव्यक्तिगतस्य खण्डादिर्विशेषसमूहस्यासाधारणा- भावान्नोपलक्षकत्वं स्यादित्याशङ्कयाह—न चेति । ननु प्रतिव्यक्त्यपूर्वविशेषाभ्युपगमे विशेषानन्त्यापत्तेरदृष्टकल्पना गौरवं स्यादित्याशङ्कयाह—अनन्तेति । ननु खण्डत्वादीना- मनेकव्यक्तिसाधारण्ये कथं विशेषव्यपदेश्यतेत्याशङ्कयाह—परेति । व्यक्तेर्विशेषेभ्योऽन्यत्वं पूर्वोक्तं भाष्यकृद्वचनेन द्रढयति—एतच्चेति । सामान्यस्य व्यक्तिपारतन्त्र्याद् व्यक्तेः सामान्याश्रयत्वं मुख्यम्, समुदायाद्याश्रयत्वं तु वृक्षाश्रयो वनमितिवत् समुदायस्य तन्मध्ये समुदायिप्रतीतेरौपचारिकम् । न च सकृच्छ्रुतस्याश्रयशब्दस्योभयरूपता युक्तेत्याशयः । व्यक्तिभाष्यस्य परव्याख्यादूषणेनाकृतिभाष्यस्य द्रव्याद्यनुगतसत्तासामान्यमेवाकृतिर्न गोत्वाद्यवान्तरसामान्यमिति सत्तावाच्यत्ववादिनां व्याख्यां बुद्धिस्थां दूषयितुं तन्मतं तावदुपपन्यस्यति—तत्रेति । उपन्यासार्थस्तत्र शब्दः सर्वशब्दानां पर्यायत्वशङ्कानिवृत्तये शब्दस्वरूपेण गोत्वादिना वा व्यवच्छेदाभिधानम् । अत्रार्थे तदीयं श्लोकं पठति— यथाहुरिति । अस्तीत्येवं रूपः सत्तासामान्यरूपः सर्वशब्दानामर्थं इतीदृशं प्रत्याय्यस्य वाच्यस्य लक्षणमाहुः । तस्य गवादिपदेष्वपूर्वादिपदैः सह तुल्यत्वादित्यर्थः । अपूर्वादीनां हि शब्दैकगोचरत्वात् तेन च विशेषाप्रतीतेरस्ति किंचिदित्येतावन्मात्ररूपेण प्रतीतेरपूर्वादि-