मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 702, कुल 804 में से
संदर्भ में पढ़ें६४८ मीमांसादर्शनम् [ सू० शब्दानां शब्दावाचित्वावधारणात्तद्दृष्टान्तेन गवादिशब्दानामपि सत्तावाचिताऽनुमीयत इत्यर्थः । एतच्च 'सत्त्वप्रधानानि नामानि' प्रातिपदिकार्थः तत्तेत्यादिदर्शनान्नामविषय- मेवेति सर्वशब्दस्तद्विषयतया सङ्कोचनीयः । दूषयति—तत्त्विति । कक्ष्याशब्दः कोष्ठवाची । द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावान्तरसामान्यकक्ष्यायां वर्त्तन्ते । पृथिवोत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायाम्, रूपत्वादीनि गुणत्वावान्तरसामान्यकक्ष्यायामित्येवमादिः कक्ष्याणां विभागः । तत्र द्रव्यशब्देन द्रव्यत्वसत्तयोर्निश्चयं प्रतीतिर्भवति । पृथिवीत्वादिषु सन्दिग्धा प्रतीतिः, गुणत्वादिषु त्वप्रतीतिरेव, गुणशब्दाद् गुणत्वसत्तयोर्निश्चयप्रतीतिः । रूपत्वादिषु सन्दिग्धप्रतीतिः । द्रव्यत्वादिष्वप्रतीतिरेवेत्यादिकक्ष्ययाविभागेन सामान्यानां प्रतिपादनात्सर्वशब्दानां च सत्ता- वाचित्वे द्रव्यशब्दाद् गुणत्ववद् द्रव्यत्वस्याप्यप्रत्ययापत्तेः । सत्ताद्वारेण वा प्रत्यये पृथिवीत्वादिवत् सन्दिग्धप्रतीतिप्रसङ्गाद् गुणत्वादावपि च तादृक्प्रतीतिप्रसङ्गात् सत्ता- वान्तरसामान्यविषयाणां द्रव्यादिशब्दानामेव तावद् सत्तावाचित्वमयुक्तम् । तत्रैवं सति दूरान्तरितार्थानां गवादिशब्दानां सुतरां सत्तावाचकत्वे शक्तिर्नास्तीत्यर्थः । श्लोकं व्याचष्टे—प्रतिनियतेति । ननु द्रव्यादिशब्दानां द्रव्यत्वाद्यवच्छिन्नशब्दवाचि- त्वाद्व्यवस्था भविष्यतीत्याशङ्कानिराकरणार्थं विशिष्टाभिधानपक्षं निराकरिष्यन्परानभि- मतमपि शुद्धाभिधानं विशिष्टाभिधाने निराकृते यदि कश्चिदङ्गीकुर्यात्तत्तदपि निराकार्यं- मिति मत्वा विकल्पयति तावत्सत्तामिति । आद्यं तावत्पक्षं निराकरोति—शुद्धेति । ननु देशाद्यपेक्षया घटादिवत्सत्तायां नास्तित्वाभिधानं न विरोत्स्यते अत आह—देशेति । आ देशब्दो वस्त्वभिप्रायो । यथाकाशस्य कूपपूरणेनोपलम्भप्रतिबन्धात्प्रतीयमानावस्था- पेक्षया नास्त्याकाशमित्युच्यते, तथात्रापीत्याशङ्कानिराकरणार्थः । मूर्तद्रव्यावष्टम्भो ह्याकाशोपलम्भप्रतिबन्धकोऽन्वयव्यतिरेकाभ्यामवगम्यते । न तु सत्तायाः किञ्चिदुपलम्भ- प्रतिबन्धकमस्तीत्याशयः । व्यक्तिमात्रगतत्वेऽपि जातेराकाशादिव्यक्तीनां विभुत्वात् सत्ताया विभुत्वसिद्धिः । सत्ताशब्दस्य लौकिकव्यवहारे च जातिवाचित्वाभावात्, सर्वशब्दानां महासामान्यवा- चित्वेऽपि सत्तावाचित्वाभिधानं न युक्तमित्याह—रूढोतं । लोकदृष्टेत्यनेन गवादि- शब्दवत् सत्ताशब्दस्य लौकिकव्यवहारे प्रयोगाभावाज्जातिवाचित्वनिषेधस्य लोकविरोधः परिहृतः । किं तर्हि सत्ताशब्दवाच्यं युज्यत इत्यपेक्षायामाह—य एव हीति । योऽस्तिशब्देन द्वितीयो भावविकार उच्यते । स एव सत्तेत्येतद्युज्यत इत्यर्थः । अनेन चास्तिशब्दोऽपि न वस्तुत्वापरपर्यायमहासामान्यवाचीति सूचितम् । द्वितीयभावविकारवाचिनोऽस्तेर्धातोः शतृन्तात्तल्लि कृते सत्ताशब्दव्युत्पत्तेरित्याशयः । ननु वस्तुशब्दस्यापि द्वितीयभावविकार- वाचित्वात्सत्तास्तिशब्दयोर्वस्तुशब्दपर्यायत्वमविरुद्धमित्याशङ्क्याह—जायमानेति । प्रथमो भावविकारो जायमानत्वम् । विपरिणामस्तृतीयः । आदिशब्देन वृद्धयपक्षयो चतुर्थपञ्चमावु-