मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 704, कुल 804 में से
संदर्भ में पढ़ें६५० मीमांसादर्शनम् [ सू० ननु सुबुत्पत्तेः प्राग्सुबन्तताऽस्तीत्याशङ्कचावश्यम्भावित्वेन सुबुत्पत्तेः प्राथम्यमुक्तम् । आवश्यकत्वोपपादनार्थं प्रातिपदिकत्वेन योग्यतोक्ता । ननु यथा पठतितमामिति अप्रातिपदि- कादपि तद्धितो जातः तथात्र तिङन्तस्यापि समासो भविष्यतीत्याशङ्कय तिङन्तेत्युक्तम् । तिङश्चेति सूत्रेणाहत्य विधानात्तत्र तद्धितो जातः । तिङन्तस्य तु समासत्वेनोपसंख्यानमपि नास्तीत्यर्थः । सदर्थवचन इत्यनेन सद्वाचिनः सच्छब्दस्यार्थपरत्वं व्याख्यातम् । कथमव्यय- शब्देनेयं प्रसिद्धिरूपपादितेत्यपेक्षायामाह - ततश्चेति । वस्तुनि महासामान्ये सति च द्वितीये भावविकारे सत्संज्ञकमस्तिशब्दं प्रयुज्यमानमुपलभ्य तदीयद्वितीयं भावविकारमाख्यानु- सरणेन च कृत्वाव्ययास्तिशब्देन सह प्रत्यासन्नमदूरान्तरार्थं कर्तृप्रतीत्याविनेति द्वितीय- भावविकारवाचितयास्त्यर्थं स्वच्छब्दमुपलभ्य, महासामान्यमप्यव्ययास्ति (शब्दवाच्यः सच्छब्दवाच्या सत्तेत्येवं कल्पितमित्यर्थः । नन्वव्ययास्तिशब्दवाच्यस्य द्वितीयभावविकारस्य सच्छब्दवाच्यत्वेऽपि कथं महासामान्यस्य सच्छब्दवाच्यत्वकल्पनमाशङ्कयाव्ययास्तिशब्द- वाच्यत्वहेतुना द्वितीयभावविकारदृष्टान्तेन तस्यापि सच्छब्दवाच्यत्वानुमानसूचनार्थं तार्किकैरित्युक्तम् । नन्वेवमपि तलप्रत्ययाधिक्यात् सत्ता¹) शब्दस्य कथं महासामान्यवाचितेत्याशङ्कय देवात्तलितिस्मृतेर्यथा देवतेति तलप्रत्ययः स्वार्थिकः तथाऽयमपीत्युक्तम् । ननु द्वितीयभाव- विकारे कृत्सञ्ज्ञकशत्प्रत्ययोपात्तकर्तृविशेषणतया सच्छब्दवाच्यत्वेन सहाव्ययास्तिशब्द- वाच्यत्वेन सहाव्ययास्तिशब्दवाच्यताऽनुमितसामान्यस्य बाधकर्तृकत्वान्न तथानुमानं सम्भवतीति धर्मविशेषविपरीतसाधनात् विरुद्धो हेतुः स्यादित्याशङ्क्य - इहापीत्युक्तम् । यथाऽव्ययास्तिशब्दवाच्ये द्वितीये भावविकारे कर्तृविशेषणत्व प्रतीर्नास्ति तथेह सच्छाब्दवाच्ये द्वितीयभावविकारे भवतीमपि कर्तृप्रतीतिं, सक्षीरेति समासोपपत्तये सुबन्तत्वयोग्य- प्रातिपदिकत्वयोग्यप्रातिपदिकत्वसिद्ध्यर्थं कृत्सञ्ज्ञकशत्प्रत्ययोच्चारणोपपत्तेरतन्त्रीकृत्य कर्तृनिरपेक्षधात्वर्थमात्रवाची सच्छब्दः तत्समानार्थत्वाच्च सत्ताशब्दोऽपीत्यर्थः । ननु स्मृत्यभावाच्छब्दपरस्य तलप्रत्ययार्थस्य स्वार्थिकं तत्त्वमविवक्षाहेत्वभावाच्च कर्तृप्रतीतेरतन्त्रीकरणमयुक्तमित्याशङ्कयापारमार्थिकाभ्युपगममात्रद्योतनार्थम्-गृहीत्वेत्युक्तम् । स्वार्थिकं तलं गृहीत्वा धात्वर्थमात्रवचनों च स्वच्छब्दसत्ताशब्दौ गृहीत्वेत्यन्वयः । नन्वनेन न्यायेनाख्यातसञ्ज्ञकस्याप्यस्तिशब्दस्य द्वितीयभावविकारवाचित्वान्महा- सामान्यवाचितापि प्रसज्येतेत्यनिष्टापत्तिशङ्कानिराकरणायाख्यातप्रत्ययोच्चारणास्या- नन्यार्थत्वेन कर्तृसंख्याकालादिप्रतीतेरतन्त्रीकर्तु मशक्यत्वात्कर्तृसंख्याकालादिनिरपेक्षशुद्ध- धात्वर्थमात्रवाचित्वमाख्यातास्तिशब्दस्य नास्तीति सूचयितुमेवकारः । ततश्चाख्यातास्ति- शब्दवाच्यद्वितीयभावविकारदृष्टान्तेनाऽव्ययत्वेऽस्तिशब्दवाच्यत्वहेतुता वस्तुत्वस्याख्यातास्ति- वाच्यमिहानुमीयमानं कर्तृसंख्यादिविशिष्टत्वेनैवानुमीयेत यदव्ययास्तिशब्दवाच्यम्, तत् १. अयं पा० २ पु० ना० ।