मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 705, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६५१ कर्तृसंख्यादिविशिष्टत्वेनाख्यातास्तिशब्दवाच्यमित्याख्यातास्तिशब्दवाच्ये द्वितीयभावविकारे व्याप्तिदर्शनादित्याशयः । ननु वस्तुत्वजातेः सच्छब्दवाच्यता तार्किककल्पिता पदवाक्यार्थ- तत्त्वज्ञैन्निराक्रियमाणा कथं प्रसिद्धिं यायादित्याशङ्कयाह—तदुक्तेति । 'यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥' इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निरा- कृतस्यापि पुनः पुनरुद्भूवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने समापने अनाद- रादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां युक्तायुक्तत्वविचारावस्थां प्राप्तमित्यर्थः । प्रसिद्ध्या- भासं चेदम्, न परमार्थतो नियुक्तानामेवं प्रसिद्धिरस्तीति च शब्देनोक्तम् । किं तदित्य- पेक्षायामाह—येनेति । येन सत्ताया वस्तुत्वापरपर्यायमहासामान्यात्मकत्वेन गवादिशब्द- वाच्यत्वेनापि संज्ञा सम्भाव्यते । तत्सत्ताया महासामान्यरूपत्वमिमावस्थां प्राप्तमित्यर्थः । यद्वा युक्तायुक्तत्वविचारस्य कः प्रस्तुतपयोग इत्यपेक्षायामिदमुक्तम्, येन कारणेन सत्तायाः सामान्यरूपत्वे सति गवादिशब्दवाच्यत्वेनापि न सत्ता सम्भाव्यते, तेन तन्निरा- करणार्थं रूढिशब्दश्च नैवायमित्यादिनं न सत्ताशब्दस्य जातिवाचिता निराकृतेत्यर्थः । परमार्थतस्तु वस्तुत्वस्य जातिरूपस्यापि गवादिशब्दवाच्यत्वं नास्ति, किमुत सत्तायाः । जात्याख्याद्धर्मिद्धर्मान्तरत्वेन द्वितीयभावविकारत्वेन वर्त्तमानत्वादित्याह -- नन्विति । ननु वस्तुशब्दस्यापि निवासाद्यर्थाद्वसेर्धातोर्वसेस्तुन्निति सूत्रेणौणादिके तुन्प्रत्यये कृते व्युत्पत्तिसम्भवादनेकत्र नितरां प्रत्येकमेकमेव वसति वतं तइत्यवयवार्थयोगेन सत्तादिषु सामान्यं सामान्यमित्येकाकारप्रत्ययालम्बनस्यानेकेष्वेकस्य प्रत्येकवृत्तित्वलक्षणस्याभिधा- नादयौगिकत्वेन जातिवाचित्वं न युक्तमित्याशङ्कां निराकुर्वन्नथंगम्यत्वं विवृणोति—वस्तु- शब्दो हीति । व्यक्तेः प्रत्येकवृत्तिस्वभावादैवंविधयोगनिमित्तत्वे वस्तुशब्दस्य व्यक्तौ प्रयोगानुपपत्तिप्रसङ्गाद्यौगिकत्वासम्भवाभिधानार्थं व्यक्त्याश्रितत्वं वस्तुत्वसामान्यस्योक्तम् । जातेर्जात्याश्रितत्वाभावाद्वस्तुशब्दस्य जातिवाचित्वे जातौ प्रयोगानुपपत्तिमाशङ्क्य निःसामान्यानि सामान्यादीनीति वैभाषिकपरिभाषायाः प्रतीतिविरोधेनायुक्तत्वाज्जातेपि जात्याश्रयत्वं सम्भवतीति दर्शयितुं जात्यन्तराश्रितत्वमुक्तम् । नन्वेवं सति वस्तुत्वेऽपि वस्तुत्वप्रतीतेर्जात्यन्तराश्रयणायान्तरशब्दः । यथैव गोत्वरूपेण शाबलेयादौ गवाकारप्रत्यय- सिद्धयर्थं गोत्वमङ्गीकृतम्, न गोत्वे, तत्र गवाकारप्रत्ययस्य स्वरूपनिबन्धनोपपत्तेः । तथा जात्यन्तरे व्यक्तौ च वस्त्वाकारप्रत्ययसिद्ध्यर्थं वस्तुत्वं जातिरिष्यते, तत्र स्वरूप- निबन्धनत्वेनैव वस्त्वाकारप्रत्ययोपपत्तेर्नापरा वस्तुत्वं जातिरङ्गीकार्येत्याशयः । शुद्धाभि- धानपक्षस्य दृष्ट्टत्वोपसंहारपूर्वकम्, विशिष्टाभिधानपक्षस्य दुष्टत्वं प्रतिजानाति तावत् — शुद्धेति । दूषयति—यदेवेति । एतदेवं प्रपञ्चयितुं विकल्पयति—गोसत्ता चापीति । आद्ये कल्पे दोषमाह—तत्रेति । एतदेवोपपादयति — विशेषणमिति । गोव्यक्तिविशिष्टसत्ताभि- धानेऽप्येतमेव दोषमतिदिशति — तथेति । कल्पनागौरवापत्तेश्च केवलव्यक्त्यभिधानपक्षवद्वि-