मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 706, कुल 804 में से
संदर्भ में पढ़ें६५२ मीमांसादर्शनम् [ सू० शेषणभूतव्यक्त्यभिधानपक्षोऽप्ययुक्त इत्याह—अनित्येति । अनित्यः सम्बन्धः तस्य चान्वय- व्यतिरेकाभ्यां विनाऽपि ज्ञानमनन्ताश्च शब्दशक्तयो यस्मिन्व्यक्त्यभिधाने प्रसज्यन्ते तत्त- थोक्तम् । दृष्टान्तं साध्यविकलत्वेन दूषयितुमनुभाषते—तस्त्विति । दूषयति श्लोकं-तन्नेति । श्लोकं व्याचष्टे—केचिदिति । श्रुतार्थापत्त्या पर्युपस्थापितस्यार्थविशेषस्य वचना वाचका इति पूर्वपदसमासान्निष्कृष्य योज्यं पर्युपस्थापनस्य नित्यपर्युपस्थापकापेक्षत्वात्पर्युपस्थापित- शब्दस्य श्रुतार्थापत्तिसापेक्षत्वेऽप्युत्तरपदसमासाविघातः । श्रुतार्थापत्त्या अपूर्वं पर्युपस्था- प्यते । स्वर्गो देवताश्च वाक्यशेषैः अर्थवादैर्वाक्यान्तरैश्च मन्त्रोपनिषदादिभिरुपस्थाप्यन्ते । ननु यद्यपि श्रुतस्वर्गयागसाध्यसाधनसम्बन्धान्यथानुपपत्त्या यागजन्यः स्वर्गोत्पादन- सामर्थ्यातिशयविशेषः कल्प्यते । तथापि समस्तवैदिकादृष्टार्थकम्मर्जन्यतिशयानुगतमपूर्वं शब्दवाच्यं सामान्यं न सत्तातोऽन्यत् प्रमाणान्तरेण लभ्यते । एवं सवनीयसूक्तादिमहेन्द्रादि- देवताविशेषावगमेऽपि सर्वदेवतानुगतं सामान्यं देवदाशब्दवाच्यं न सत्तातोऽन्येन लभ्यते । ये हि जनाः पुण्यकृत इत्यादिवाक्यशेषाच्च नक्षत्रलोकादिस्वर्गाविशेषावगमेऽपि न च वै स्वर्गलोका इत्यादिवाक्यशेषेभ्योऽनेकस्वर्गविगतेः सर्वानुयायिस्वर्गशब्दवाच्यं न सत्तातोऽ- न्येन लभ्यते इति वलात्सत्तैवापूर्वादिशब्दवाच्या स्यादित्याशङ्कयाह—कार्येति । सामान्ये- नेतीत्थम्भूतलक्षणे तृतीया । सामान्यरूपमप्यपूर्वादिसत्तातोऽन्यदेव लभ्यत इत्येवकारार्थे तुशब्दः । किं तदित्यपेक्षिते सर्वातिशयानुवृत्तिस्वर्गादिकार्योत्पादनसामर्थ्यसामान्यमपूर्वं- शब्दवाच्यम्, सर्वेन्द्रादिदेवतानुवृर्त्तिदीव्यतिधात्वर्थयोगित्वसामान्यं देवताशब्दवाच्यम्, सर्वस्वर्गानुवृर्त्तित्वदुःखमिश्रसुखनिष्ठसुखसङ्गतिसामान्यं स्वर्गशब्दवाच्यमित्युक्तम् । श्लोकं व्याख्यातुमपूर्वशब्दस्य तावत्सत्तातिरिक्तसामान्यवाचित्वमुपपादयति—सर्वेति । ननु लौकिकसाधनगतानां सामर्थ्यानां कार्यार्थापत्तिगम्यत्वेऽप्यपूर्वशब्दवाच्यत्वाभावात्, तद्वाक्यानां च वैदिकयागादिजन्यानां सामर्थ्यानां विशेषतः श्रुतार्थापत्तिगम्यत्वेऽपि सर्वकर्म- सामान्यविध्यभावेन सामान्यतः प्रमाणान्तरेणाऽनवगमात्सम्बन्धग्रहणासम्भवेन कथमपूर्व- शब्दाभिधेयतेत्याशङ्क्य—यागादीत्युक्तम् । क्लृप्तावयवसामर्थ्यानुसारेणैवापूर्वशब्दस्य सत्ता वैदिककर्मजन्यातिशयविशेषवत्त्व्यवान्तरसामान्याभिधायकत्वोपपत्तेर्न पृथक्सम्बन्ध- ग्रहणापेक्षेति भावः । देवशब्दस्य सत्तावाचित्वनिरासः देवताशब्दस्य सत्तातिरिक्तसर्वदेवतावत्त्व्यवान्तरसामान्यवाचित्वमुपपापयति—तथेति । दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिष्विति सप्तस्वर्थेषु स्मृताद्दीव्यतेर्धातोर्घञि कृते देवशब्दव्युत्पत्तेः । सर्वेन्द्रादिदेवानुगतस्य क्रीडादिदीव्यत्यर्थयोगस्य सामान्यस्य सत्ता- तिरिक्सस्य सद्भावात्सुज्ञानो देवशब्देन सह देवानां सम्बन्ध इत्यर्थः । सत्ताव्यावृत्त्यर्थो विशेषशब्दोपाधिकत्वाद्वा देवशब्दस्यापूर्वशब्दवदेव जातिवाचित्वनिराकरणार्थः । ननु क्रीडादिदीव्यत्यर्थयोगस्य प्रमाणान्तरेण देवेष्वनवगमात्कथं तद्योगिनिमित्तेन देवशब्देन सह सम्बन्धज्ञानमित्याशङ्कयार्थान्तरानवगमेऽपि द्युत्यादेर्दीव्यत्यर्थस्य चन्द्रादौ प्रत्यक्षेणोप-