मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 707, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये तृतीयपादः ६५३ लम्भाद्देवशब्दप्रवृत्तिनिमित्तत्वं भविष्यतीति दर्शयितुम्—द्योतन्ते वेत्युक्तम् । ग्रहशब्देनैव चन्द्रादित्योपादाने सिद्धेऽपि द्युत्यतिशयात्तयोः पृथगुपादानम् । पृथगुपादानं चन्द्रतारकेभ्यो नक्षत्राणां द्युत्यतिशयात्पृथगुपादानम् । रूपेणेतोत्थम्भूतलक्षणे तृतीयायोजना तु दीव्यन्तीति व्युत्पत्त्या क्रीडादिदीव्यत्यर्थयोगात्सर्वे देवाश्चन्द्रादिरूपेण गगने स्थिता द्योतन्त इति दिव्यत्यर्थः । द्युतियोगाद्देवाः वायवः सततगत्या दीव्यत्यर्थगतियोगाद्देवाश्च शब्दोपात्ताश्चेतरे सर्वेऽपि वा स्तूयन्त इति दीव्यत्यर्थस्तुतियोगाद्देवा इति प्रकार- वचनमितिकरणम् । निरावत्स्यं कार्या-गत्येत्यत्र तु तृतीयेवेतिकरणार्थस्य लब्धत्वान्नेति करणापेक्षा । आर्थवादिकीनां स्तुतीनां विधिशेषत्वेन देवता स्वरूपपरत्वाभावान्मन्त्रैरि- त्युक्तम् । अस्य च ग्रन्थस्य क्रमेण श्लोकगतेन्द्रादिपदोपात्तार्थविवरणत्वावगमात्सर्वेन्द्रादि- देवतागतदेवता१) त्वसामान्यपरमिन्द्रादिपदमवसीयत इति कृत्वा, तयाऽस्माभिर्व्याख्यातम् । स्वर्गशब्दस्य सत्तावाचित्वनिरासः स्वर्गशब्दस्य सत्तातिरिक्तार्थवाचित्वमुपपादयितुं नक्षत्रदेशो वा, मेरुष्पृष्ठं वा विशेष एव स्वर्गशब्दवाच्यः न सामान्यमिति प्रकारद्वयं तावदाह—तथेति । वैदिकेन प्रकृष्टेन स्पष्टेन वादेन, तन्मूलेन च पौराणिकानां मातलयर्जुनसम्वादादिगतेन दर्शनेन याज्ञिकानां धाइ गन्मस्तुवः संज्योतिषाऽभूनेत्यादिप्रोत्साहनमन्त्रार्थानुसन्धानरूपेण दर्शनेनेत्यर्थः । वैदिक- प्रवादद्वयं 'यथा वेद' इत्युपक्रम्योदाहृतम् । ननु न च वै स्वर्गलोका इत्यादिदर्शनेनानेक- स्वर्गानुगतसामान्यं स्वर्गशब्दवाच्यमङ्गीकार्यम्, न वा तत्सत्तातोऽन्यत्सम्भवतीत्याशङ्कानिरा- करणार्थत्वेन निर्म्मिश्रसुखसङ्गतिरित्येतद्व्याचष्टे—अथ वेति । केवलमेव सुखं स्वर्गशब्दे- नोच्यत इत्यनुषङ्ग । सुखस्य केवलं दुःखामिश्रत्वमुपपादयितुम्, दुःखाभावेऽप्यल्पम्पावदुःखा- सद्भावेऽपि च व्यतिरेकाद्—दुःखाद्विभक्तमित्युक्तम् । नन्वेवं सति कियत्कालं केवलसुख- स्येहापि दर्शनात् स्वर्गस्यामुष्मिकत्वं न स्यात् इत्याशङ्क्य—यदिद्युक्तम् । सर्वसुखसाधन- सम्पन्नस्यापि पिपासादिदुःखाभावे स्वादूदकपानाद्यप्रवृत्तेः कंचित्कालं दुःखस्यापरिहार्य- त्वाद्दिदुःखस्य चापरिहार्यंत्वाच्चिरकालं केवलसुखोपभोगस्यास्मिन् देशेऽनुपपत्तेः । परलोक- भोग्यत्वादल्पकालस्य च केवलसुखस्य स्वर्गशब्दानभिधेयत्वात्पारलौकिकता सिद्धेत्यर्थः । ननु चिरकालोपभोग्यस्य केवलसुखस्य प्रमाणान्तरेणानवगमात्कथं सम्बन्धग्रहणमित्याशङ्कां निराकुर्वन्स्वर्गादिशब्दार्थनिरूपणस्य प्रकृतसत्तावाचित्वनिराकरणोपयोगित्वमुपसंहरति -- तच्चेति । यागादिजन्यस्य चिरकालकेवलसुखस्य प्रमाणान्तरेणाऽग्रहणेऽपि लौकिके एव सुखेऽन्वयव्यतिरेकाभ्यां दुःखामिश्रात्सुखान्निष्कृष्टे गृहीतसम्बन्धः स्वर्गशब्दोऽल्पकाले सुखे तद्विना प्रत्यासत्तिजन्यदुःखापरिहारेणामिश्रत्वायोगात् कैवल्येनैव चिरकालताक्षेपादिशिष्ट- मेवालौकिकं प्रतिपादयतीत्याशयः । स्वर्गशब्दस्य सत्तावाचित्वनिराकरणोपसंहारेणेतरयो- रपि तुल्यन्यायसिद्धत्वात्पृथगनुक्तिः । अतश्चापूर्वादिशब्दयोग्यं गवादिशब्दानां स्वार्था- १. अयं पा० २ पु० ना० ।