मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 714, कुल 804 में से
संदर्भ में पढ़ें६६० मीमांसादर्शनम् [ सू० एकता भी रहेगी, जाति व्यक्ति से अभिन्न है, अतः व्यक्ति की प्रतीति होने पर जाति की भी प्रतीति अनायास ही होगी अथवा "प्रयोगचोदनाभावात्" = विधिवाक्य का वाच्य की चोदना अर्थात् उच्चारण जन्य अर्थ प्रतीति का अभाव अर्थात् अप्रामाण्य होने से "अर्थकत्वम्" = लौकिक एवं वैदिक अर्थ की एकता होने से अर्थात् अभिन्नता ही है, "अविभागात्" = विभाग अर्थात् वैलक्षण्य नहीं है। लौकिक और वैदिक शब्द एवं उनका अर्थ अभिन्न है, क्योंकि, लौकिक एवं वैदिक शब्द की अभिन्नता है, यदि अभिन्नता न मानी जाय तो विधि वाक्य का या वेदवाक्य के उच्चारण का अप्रामाण्य मानना होगा ॥ ३० ॥ अद्रव्यशब्दत्वात् ॥ ३१ ॥ शा० भा०-द्रव्याश्रयस्य शब्दो द्रव्यशब्दः, न तत्र द्रव्याश्रयवचनः शब्दो 'भवेत्, यद्याकृतिः शब्दार्थो भवेत्। षड¹ देया द्वादश देयाश्चतुर्विशतिर्देया इति । न ह्याकृतिः षडादिभिः संख्याभिर्युज्यते । तस्मान्नाऽऽकृतिवचनः ॥ ३१ ॥ अन्यदर्शनाच्च ॥ ३२ ॥ शा० भा०—'यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं यद्वयसमालभेत' इति । यद्याकृतिवचनः शब्दो भवेत्, अन्यस्याऽऽलम्भो नोपपद्येत । अन्यस्यापि पशुद्रव्यस्य सैवाऽऽकृतिः । तस्माद् व्यक्तिवचन³ इति ॥ ३२ ॥ पूर्वपक्षः । भा० वि०—व्यक्तेश्शब्दार्थत्वे हेत्वन्तरमाह - अद्रव्यशब्दत्वादिति । सूत्रं व्याचष्टे—द्रव्याश्रयस्येति, अद्रव्यशब्द इति। अद्रव्यः शब्द इतिच्छेदः, अनेन सौत्रं पदमनूदितम् तच्च गुणशब्द इति व्याख्यातं द्रव्याश्रयस्य शब्द इति, न च जातेरपि द्रव्याश्रयत्वात् कथं द्रव्याश्रयस्य शब्दो गुणशब्द एवेति वाच्यम्; द्रव्यत्वे नञा पर्युदस्ते तदन्यापेक्षायां द्रव्यमात्राश्रयत्वात् नेति; गुण एव द्रव्याश्रयस्य शब्द इत्याशयः, एवं पदार्थमुक्त्वा नञध्याहारेण वाक्यार्थमाह—न तत्रेति । गवादि शब्दानामाकृत्यर्थत्वे तत्समानाधिकरणषडादिसङ्ख्यागुणवचनशब्दो न भवेदित्यर्थः, कुत इत्यत आह—न हीति । द्रव्यस्यैव गुणवत्त्वनियमादिति भावः । उक्तहेतुफलमाह—तस्मादिति । ततश्चाकृतिविशिष्टा वा; केवला वा व्यक्तिश्शब्दार्थ इति भावः ॥ ३१ ॥ भा० वि०—इतश्च व्यक्तिश्शब्दार्थ इत्याह—अन्यदर्शनाच्चेति । सूत्रं व्याख्यातुं विषयमाह—यदीति । अन्यस्य प्रतिनिधेः विधानदर्शनाद्व्यक्तिश्शब्दार्थ १ ब. षड्देया । २ ब. संख्यादिभि । ३ ब. सेवतस्मा ।