भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 716, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 716

विशिष्टायाः, तदुपलक्षिताया वा व्यक्तेरभिधानाच्छुक्लशब्देन च गुणविशिष्टायास्तदुपल- क्षिताया वाऽभिधानात्तयोश्चैकत्वे प्रमाणाभावात्कथं सामानाधिकरण्यमित्याशङ्कयाह - मम हीति । व्यक्तिपक्षे सर्वव्यक्त्यभिधानाद् गोशब्दस्य शुक्लायामपि गोव्यक्ती वृत्तेः, शुक्लशब्दस्य च गोजातीयायामपि शुक्लव्यक्तौ वृत्तेरेकार्थसिद्धिः । जातिपक्षे तु व्यक्तेः शब्देनानुक्तत्वाल्लक्ष्यमाणायाश्चैकत्वे प्रमाणाभावाद् गवाश्वशब्दयोरिव भिन्नार्थतेति भावः । (मम हि व्यक्तीति व्यक्तिशब्दः । न तव त्वद्रव्येति द्रव्यशब्दः । उत्तरार्धं पूर्वार्धस्य विपर्ययेणाव्यक्तिशब्दत्वादिति वक्तव्ये द्रव्यशब्दव्यतिकरेण मिश्रणेन गुणशब्दस्य गुणवचनशब्दस्य शुक्लादिशब्दस्य गुणवचनशब्दस्य गुणोपलक्षितद्रव्यवाचित्वमेव न तु गुणवाचित्वमिति व्यक्त्यभिधानपक्षे पूर्वपक्षमते सूचितमित्यन्वयः । व्यक्तिद्रव्यशब्द- व्यतिकरेण इति सूचितमित्यन्वयः । मम हि व्यक्तीति व्यक्तिशब्दः न तव त्वद्रव्यशब्देति च द्रव्यशब्दः तयोः झटित्यन्वयव्यतिरेकयोरेकविषयत्वोपस्थित्यै व्यक्तिशब्दस्य, द्रव्यशब्दस्यैव वा उभयत्र प्रयोज्यत्वौचित्येऽपि तयोः व्यतिकरः भिन्नरूपयोः प्रयोगः । तेन गुणशब्दस्य गुणवचनसंज्ञकशब्दस्य गुणव्यक्तिवाचित्वशङ्काया व्यक्तिवाचित्वपक्षे प्रसक्ता सा१) गुणशब्दस्य गुणोपलक्षितद्रव्यवाचित्वं न तु गुणव्यक्तिवाचित्वं जातिपक्षोक्तदोषसाम्या- दिति सूचितम् । श्लोकं व्याचष्टे-जातीति । ननु गोशब्देन कृष्णादिव्यक्तीनामप्यभिधानाच्छुक्ल- शब्देन चाश्वादिव्यक्तीनामप्यभिधानात्कथं सामानाधिकरण्यमित्याशङ्कया - तच्चेत्युक्तम् । द्रव्यान्तराभिधानेऽपि तस्यापि तावदभिधानात्सा (मानाधिकरण्यसिद्धिरित्यपिशब्दार्थं च शब्दः । नन्वाकृतिपक्षेऽपि तर्हि जातिगुणाभ्यां लक्षितस्य द्रव्यस्यैकत्वमपि सम्भवतोति पाक्षिकं सा२) मानाधिकरण्यं स्यादित्याशङ्क्य - एवंविधमपीत्युक्तम् । व्यक्तिपक्षे भिन्नव्यक्तिवाचित्वेऽप्येकव्यक्तिवाचित्वं नित्यमस्ति । जातिपक्षे तु भिन्नार्थत्वदसङ्कीर्णमध्ये- कद्रव्यशब्दत्वाभावप्रसङ्गादित्येवं साक्षात्सामानाधिकरण्याभावप्रसङ्गाभिधानपरत्वेन व्याख्यानान्तरमाह-इतीति । ननु द्रव्याश्रयस्येति भाष्येण द्रव्यशब्दस्य लक्षणया गुण- परत्वमुक्त्वा, न भवेदिति नञो भवतिनान्वयः कृतः । तत्कमित्यन्यथा भवता व्याख्यात- मित्याशङ्कयाह - यस्त्विति । कथं द्रव्यशब्देन गुणलक्षणेत्यपेक्षायां-तत् द्रव्यमाप्योऽस्ये- त्युक्तम् । भेदाधिष्ठानत्वाच्चाश्रयाश्रयिभावस्य यत्र पदस्य युक्त इति व्यधिकरणत्वेन निर्दिष्टस्य गुणस्य प्रयोगः तदहंत्वमप्यनेनैवोपपादितम् । अतिक्लिष्टत्वोपपादनाथमप्रधान- भूतगुणविपरीतार्थेन प्रधानभूतार्थेन द्रव्यशब्देन लक्षणा । नञश्च भवत्यर्थसापेक्षस्य द्रव्यो- १. अयं पा० २ पु० ना० । २. अयं पा० २ पु० ना० ।