मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 717, कुल 804 में से
संदर्भ में पढ़ें३१-३२ ] प्रथमाध्याये तृतीयपादः ६६३ पसर्जनत्वेनासार्मथ्यस्य द्रव्यशब्देन—समासाङ्गीकरणमुक्तम् । यद्यपि क्रिया न स्यादिति चेदर्थान्तरे विधानं द्रव्यमिति चेदित्यनुभाषणसूत्रगतो द्रव्यशब्दः षडादिशब्दस्य द्रव्यवाचित्वाभावादगत्या गुणलक्षणार्थो व्याख्यायते, तथापीह द्रव्यशब्देनैव गुणस्य वक्तुं शक्यत्वात्तल्लक्षणाश्रयणं युक्तमित्याशयः । किमेवं सत्ययुक्तमिदं भाष्यमित्याशङ्क्याह— तत्रापि चेति । नात्र द्रव्यशब्देन समस्तस्य नञो भवत्यन्वयो विवक्षितः । किं त्वकार- प्रश्लेषेण गुणशब्देनाद्रव्यशब्द एव सौत्रे व्याख्यानायोक्तः । जातिशब्दस्याप्यद्रव्यशब्दत्वो- पपत्तेः कथं गुणशब्दस्यैवाद्रव्यशब्दतेत्याशङ्कानिराकरणार्थं द्रव्यत्वेन न पर्युदस्ते तदन्या- पेक्षायां द्रव्यैकाश्रयत्वाद् गुण एव शीघ्रमुपतिष्ठते । जातिस्त्वनेकद्रव्यगुणकर्माश्रय- त्वान्न शीघ्रमुपतिष्ठत इत्यद्रव्यशब्देन गुणाभिधानाद् गुणशब्द एवाद्व्रव्यशब्द इति— द्रव्याश्रयस्येत्युक्तम् । नन्वेवं सति नकारान्तराभावान्न द्रव्याश्रयवचन इति भाष्यं कथमित्याशङ्क्याध्या- हारेण योजयितुम् — स आकृतेरित्युक्तम् । स्वरूपेण शब्दस्य निषेधुमशक्यत्वाच्चस्याकृतिः शब्दार्थ इति चानन्तरमभिधानादाकृतिवाचिशब्दसम्बन्धिनश्चेदित्यर्थलाभं मत्वा — एकवाक्यसम्बन्धमित्युक्तम् । नन्वेवं सत्यन्याय्यलक्षणसमर्थंसमासदोषपरिहारादक्षरार्थ- मात्रस्य सम्भवेनैषा योजनेति किमित्युक्तमित्याशङ्क्याह—सामानाधिकरण्येति । षड् गावो देया इति समानाधिकरणनिर्दिष्टगुणशब्दोदाहरणाद् गोशब्दस्याकृतिवाचित्वे तत्सामानाधि- करण्यं षडादिशब्दानां न युज्येतेति पूर्वपक्षिणः सिद्धान्तबोधं प्रतीयते । तच्च भेदाधिष्ठा- नाश्रयाश्रयिभावोक्तेर्निष्कृष्टगुणवचनस्याद्रव्यशब्दत्वावसायात्तस्य च व्यक्तिपक्षेऽपि गुण- व्यक्तिपर्यवसायित्वेन द्रव्यव्यक्तिपरत्वाभावाविशेषात्तदानीमपि क्लेशेनाक्षरार्थयोजनाया- मप्यनुपपन्नमेवेत्यर्थः । का तर्हि सूत्रस्य गतिरित्याशङ्क्याह —इतीति । यास्माभिर्व्यक्तिद्रव्यशब्दव्यतिकरेण व्यक्तिपक्षे गुणोपलक्षितद्रव्यव्यक्तिवाचित्वं गुणशब्दानां सूचयित्वा जातिपक्षे द्रव्यशब्दत्वा- भावात्सामानाधिकरण्यं न सम्भवतीति व्याख्या कृता । सैव युक्ता न तु या भाष्यकृता गुणशब्दस्य व्यक्तिपक्षे गुणव्यक्तिवाचित्वमभिप्रेत्य कृता । तस्मिन्व्याख्याने सामानाधि- करण्याभावप्रसङ्गस्योभयवादिसाम्येनाचोद्यत्वापत्तिरित्यर्थं ॥ ३१-३२ ॥ मा० प्र०—जाति को अभिधेय मानने पर गुणवाचक शुक्ल एवं संख्यावाचक षट् आदि शब्दों का अन्वय नहीं होगा। क्योंकि, जाति, गुण आदि का आश्रय नहीं है। व्यक्ति ही गुण, लिङ्ग, संख्या आदि का आश्रय है। अतः “अरुणया पिङ्गक्ष्यैकहायन्या गवा सोमं क्रीणाति” अर्थात् अरुणवर्ण, पीलीनेत्र एक वर्ष की गौ के द्वारा सोम का क्रयण करना चाहिए, इन स्थलों में अरुण आदि वर्ण, एका देया षड् देया द्वादश