मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 728, कुल 804 में से
संदर्भ में पढ़ें६७४ मीमांसादर्शनम् [ सू० गोत्ववानिति तु स्फुटं प्रत्ययेन जातिमदभिधानम् । विभागोपपत्तेः । सामान्यस्य वोपलक्षणत्वान्न भेदपक्षदोषः । भेदानामेव चायं प्रत्येकं सर्वेषां वाचकः । यस्तू- पादीयमानत्वे संशयः, स संख्याधारविषयः । उद्दिश्यमानेषु निर्णय एव । गवादि- शब्दग्रहणं सर्वनामाख्यातशब्दानामन्तर्भावार्थम् । प्रयोजनं सामान्यविशेषशब्द- योरेकविषयत्वात्सामान्यशिष्टस्य विशेषशिष्टेनाबाधः पूर्वपक्षे । परमतेनाधिकरणं व्याख्याय स्वमतेन नामाख्यातयोरर्थनिर्णयः इति निरूपणम् एवं वा—गौरित्येवंविधाः शब्दाः साधुत्वेन निरूपिताः । तेषामेवाभिधेयेऽर्थे व्यापारः क्वेति चिन्त्यते ॥ ९९८ चतुर्विधे' पदे चात्र द्विविधस्याऽर्थनिर्णयः । क्रियते संशयोत्पत्तेर्नोपसर्गनिपातयोः ॥ ९९९ तयोरर्थाभिधाने हि व्यापारो नैव विद्यते । यदर्थद्योतकौ तौ तु वाचकः स विचार्यते ॥ १००० वाचकत्वेऽपि पाश्चात्यमनुयात्येवमादिषु । प्रतीयते विशेषो यः संशयेन स नाऽऽप्यते ॥ १००१ यदि ह्यर्थद्वये बुद्धिर्निपातोच्चारणाद्भवेत् । ततो विचारो जायेत न सामान्यधिया विना ॥ १००२ आख्याताथविचारस्य भावार्थाधिकरणे कृतत्वात् अत्र प्रकृत्यर्थविचारः आख्यातस्यापि नन्वत्र न युक्ताऽर्थविचारणा । द्वितीयादावियं यस्माद्विस्तरेण करिष्यते ॥ १००३ कः पुनर्भाव² इत्यादौ विवेकेनार्थनिर्णयः । आख्यातस्य कृतस्तेन तच्चिन्ता नोपपद्यते ॥ १००४ प्रत्ययार्थस्य भावस्य वाच्यता प्रतिपादिता । प्रकृत्यर्थविवेकार्थं विचारः क्रियतेऽधुना ॥ १००५ प्रत्ययस्यापि वा तत्र भावार्थत्वे निरूपिते । सामान्यं वा विशेषो वा किं वाक्यमिति चिन्त्यते ॥ १००६ अत्र सिद्धस्यैव तत्र व्यवहारो भाष्यकृतः या चोक्ता भाष्यकारेण यागादेरभिधेयता । सिद्धा सेह विवेकार्थं तत्र भावस्य भाषिता ॥ १००७ १. नामाख्यातोपसर्गनिपातरूप इत्यर्थः । २. जै० सू० २-१-१ इत्यत्र भाष्यकारेण ।